________________
सूक्तमुक्तावली प्रणम्य राजानं प्रशस्य स्वस्थानमगात् । राज्ञोऽपि तनुः पूर्वतोऽप्यधिकोज्ज्वलाऽभवत् । इत्थमेव दयासु सर्वरेव दाढ्यं विधेयम् ।
अथ २३-सत्य-विषयेगरल अमृत प्राणी ! सांचथी अग्नि पाणी, स्रज सम अहि ठाणी सांच विधास खाणी । सुप्रसन सुर कीजे सांचथी ते तरीजे, तिण अलिक तजीजे सांच वाणी वदीजे ॥७॥
भो लोका! इह जगति सत्यप्रभावतो गरलममृतायते अनिश्च जलवच्छीतलीभवति । सर्पोऽपि सगिवाचरति, लोके यशः कीर्तिश्च प्रसरति । किञ्च सर्वेषां विश्वासपात्रं सत्यमेवाऽस्ति । देवा अपि सत्येन प्रसीदन्ति । सत्यादेव दुस्तरो जगत्सागरस्तीर्यते, अतः सर्वैर्मृषावचस्त्यक्त्वा सत्यमेवाश्रयितव्यम् ||५७|| जग अपजस वाथे कूड वाणी वदंता, 'वसुनृपति' कुगत्ये साख कूडी भरंता । असत वचन वारी सांचने चित्त धारी, वद वचन विचारी जे सदा सौख्यकारी
૧૮ના मिथ्याभाषणेन लोकेऽपकीर्तिः प्रसरति । अलीकसाक्ष्यदानादाजन्मसत्यभाषी न्यायी च एकदैवासत्यभाषणेन वसुराजोऽपि दुर्गतिमाप । अतः सर्वैरेव लोकद्वये श्रेय इच्छद्भिर्मूषावादं त्यक्त्वा सत्यं मितं समुचितमेव वक्तव्यम् ।।५८||
75