________________
सूक्तमुक्तावली ४६-मिथ्यासाक्ष्यदानान्नरकं प्राप्तस्य
वसुराजस्य प्रबन्धःतथाहि- क्षीरकदम्बकनाम्नोऽध्यापकात् तत्पुत्रः पर्वतो, वसुराजो, नारदश्चैते त्रयः सहैव पेतुः । कालङ्गते तस्मिन् पर्वतस्तत्पुत्रस्तत्स्थानेऽध्यापकोऽभूत् ।
___ अथैकदा नारदः कुतश्चित्तद्गृहमागतवान् । तत्राऽवसरे पर्वतः "अजैर्होतव्यमित्यस्मिन् पाठेऽजशब्दार्थमजं छागं शिष्यमध्यापयत् ।" तदाकर्णयन्नारदस्तमवक्-भोः पर्वत! त्वमनर्थ कथङ्करोषि ? गुरवस्तु पाठनकाले त्वां मां वसुराजञ्च त्रैवार्षिकं व्रीहिमेव 'अज'पदवाच्यमाचचक्षिरे । पर्वतोऽवदत्-त्वमेवाऽलीकं जल्पसि, अहं तु यथोक्तं गुरुभिस्तदेवाऽऽलपामि । इत्थं तयोर्महान् विवादो जातः । प्रान्ते द्वाभ्यामेतद्विवादनिर्णेता सहाध्यायी वसुराजोऽवधारितः |
द्वितीयेऽहनि तौ नारदपर्वतौ विवदमानौ स्तः, इति विदित्वा तन्माता रहसि पर्वतमवोचत- हे पुत्र ! नारद एव सत्यं वक्ति । अहमपि त्वत्पितृमुखात्तथैव जानामि राजा च सत्यवक्ताऽस्ति, स कदापि मिथ्या नैव वदिष्यति ततस्तेऽकीर्तिः प्रसरिष्यति। पुत्रोऽवदत्हे मातः ! त्वं नृपान्तिकं याहि, मदुक्तं यथा सत्यं भवेत्तथा यतस्व । . अथ पर्वतजननी नृपान्तिकमगमत् तथाऽऽगतां गुरुपत्नीमासनादिना सत्कृतां प्रणम्य राजा तामपृच्छत्- हे मातः ! किमर्थमागतासि ? तद्वद | साऽवक्- पुत्रभिक्षार्थमागताऽस्मि । हे मातः ! तव पुत्रस्य बालमात्रमपि कः कुटिलीकुर्यात् ? तद्द्वेषी नैव जीविष्यति । इत्थं नृपोक्तमाकर्ण्य नारदपर्वतयोर्विवादं विज्ञाप्य
176