________________
सूक्तमुक्तावली त्वमेकमुपकरोषि एकं हंसि परं त्वयि धर्ममर्मज्ञे नैतत्संघटते । अहं तु त्रिभिर्दिनैः क्षुधापरिपीडितोऽस्मि, मां क्षुधातुरं पश्यतोऽपि तव दया किमिति नोदेति ? मम भक्ष्यं तवाऽन्तिके समागतमस्ति तन्मे समर्पय । येनाऽऽत्मानं तर्पयाणि, क्षुधा मामधिकं बाधते, तद्वेदना मयाऽतः परं न सह्यते । अहमाशिषं ते दास्यामि ।
तत्र समये नृपोऽवदत्- हे सिञ्चानक ! त्वमितोऽन्यन्मार्गय, तत्ते समर्प्य तव क्षुधां शमयामि । सोऽवक्-अन्यैर्मे प्रयोजनं नास्ति । मम मांसाऽशनं विना कदापि मनागपि तुप्तिर्न संभाव्यते । अतस्त्वच्छरणे समागतं मां भक्ष्यमेव समर्पय । तदाकर्ण्य राज्ञाऽचिन्ति असौ सत्यं वक्ति, सर्वेषां नैसर्गिक आहार एव प्रेयान् भवति । अतोऽमुष्मै मांसाऽशिने मांसमेव देयम। परं यदि कपोतं दास्ये तर्हि कीर्तिहानिरधर्मश्च हिंसालक्षणो भविष्यति । इति स नैव देयः किन्तु तत्परिमितमांसमेव स्वाङ्गं छित्त्वा देयमस्माभिरिति विचिन्त्य तत्कालं तुलायामेकत्र तं कपोतममुञ्चत् । चैकत्र स्वजङ्घां छित्त्वा छित्त्वा पललममुञ्चत् । परं देवमायया कपोतादधिके पलले मुक्तेऽपि तत्साम्यं नाध्यगच्छत् ।
T
I
ततो राजा प्रधानादिभिर्भणितः - हे स्वामिन्! एकस्य कपोतस्य कृते निजममूल्यं शरीरं किं विनाशयसि ? नैतत्संघटते । यदुक्तम्'जीवन्नरो भद्रशतानि पश्येत् परं तथापि गिरिरिव धर्मनिश्चलो राजा 'देहं पातयामि कार्यं साधयामि इति निश्चित्य सकलजननिषेधमगणयन्नल्पैमांसैर्यदि तत्साम्यं न जायते तर्हि सकलैरपि शरीरमांस: स रक्षणीय इत्यवधार्य सकलं वपुः सङ्कल्प्य स्वयमेव तुलामारोहत् । तत्राऽवसरे तत्साहसधैर्यं विलोक्य स निजदेवरूपेण प्रकटीभूय
174