________________
सूक्तमुक्तावली ४४-अथ लोभत्यागात्प्राप्तकेवलज्ञानस्य
कपिलद्विजस्य कथायथैकस्मिन्नगरे कश्चिद्राजा प्रभाते माषद्वयं सदैव स्वर्णं दातुं सङ्कल्पितवान् । तत्स्वरूपं तत्रस्थः कपिलनामा कोऽपि विद्यार्थी विप्रः श्रुत्वा लोभग्रस्तत्वात् कियती रात्रिरवशिष्यत इत्यजानन्मध्यरात्र एव समुत्थाय स्नातानुलिप्तो भूत्वा तल्लातुकामो नृपसौधम्प्रत्यचलत् । मार्गेऽथ रक्षकैश्चौरधिया गृहीतः प्रभाते तं नृपान्तिकमनयत् ।
अथ परीक्षया नाऽसौ चौर इति निश्चत्य राजा तमपृच्छत्-भोः कस्त्वम् ? तेनोक्तं-राजन्! दास्या लक्ष्म्या प्रेरितस्त्वदन्तिकमागच्छन्नहं रक्षकेण तस्करधिया गृहीतोऽभूवम् । तदाकर्ण्य राज्ञाऽचिन्ति-अहो! ममैतन्नगर ईदृशो दरिद्रो वसति । तदनु करुणया राजाऽवक्- भो ब्राह्मण ! त्वमीप्सितं मार्गय, यत्त्वं याचिष्यसे तदवश्यमहं ते दास्यामि । तत्र शङ्कां मा कृथाः । ममाशोकवाटिकायां गृहं वा याहि मनसि समालोच्याऽत्राऽऽगच्छ।
ततो नृपोक्तमाकर्ण्य तत्र गत्वा स चिन्तयति स्म तथाहिनृपो मे यथेप्सितं दित्सति मया कियत् किं याच्यं ? शतं द्विशतं पञ्चशतं सहस्रमयुतं लक्षं कोटिपर्यन्तमधावत्तन्मनः परमथाऽपितृष्णां न जहौ । ततोऽप्यधिके दधाव किमधिकं तद्राज्यजिघृक्षाऽप्युदपद्यत । प्रान्ते कुत्राऽपि मनःस्थैर्यमनधिगत्य मनस्येवं दध्यौ-सर्वा अपि सम्पदः क्षणिकाः सन्ति । मामेते विनश्वराः पदार्था हास्यन्ति, किमहमप्येतान्न त्यक्ष्यामि ? इत्थं शुभकर्मोदये भवप्रपञ्चेऽपगते संयमरसलीनो व्यचिन्तयत्तदा कपिलः । तथाहि
171