________________
सूक्तमुक्तावली कियडूरं गत्वा तेष्वेको देव एवं दध्यौ- अहो ! भारतस्य षट्खण्डसाधने कियन्तो वर्षा याताः । पुनरिदानीं यत्रैकमपि खण्डं कदाऽपि केनाऽपि न साधितं, तत्र षट्खण्डसिषाधयिषयैष प्रयाति । कियद्भिर्वर्षः साध्यं स्यादित्यनुमातुमपि न शक्यते । अत एकदा गृहं समेत्य प्रेयसी मिलित्वा पुनरिहाऽऽगमिष्यामि । तावदेकस्मिन् मयि गते चर्मरत्नवाहने कापि हानिन स्यादिति विचिन्त्यैको देवस्तन्मुक्त्वा गतः । इत्थमनुक्रमेण सर्वेऽपि तथा विचिन्त्यैकदैव तत्तत्यजुः । ततः पापोदयात्ससैन्यं चक्रवर्तिचर्मरत्नं तदैव तल्लवणाब्धौ ममज्ज | सर्वे कालं चक्रुः- अहो ! देवा अपि यमसेवन्त, तस्याऽपि चक्रवर्तिनो लोभाऽऽधिक्यान्नाशोऽभूत्तर्हि परेषांका वार्ता ? इति हेतोर्महाक्लेशकारी लोभोऽसौ सर्वथैव हेयः । कनक-गिरि कराया लोभथी नंदराये, निज अरथ न आया ते हर्या देवतायें । सकल निधि लहीजे स्वायते विश्व कीजे, मन तिणथि न रांझे लोभ तृष्णा न छीजे ॥५४॥
अन्यच्च शृणुत-पुरा प्रसिद्धिभाग नन्दनामा राजा स्वर्णगिरिमकृत परं तस्योपभोगस्तेन नाऽकारि, किन्तु देवैरपहृतः । स तु तृष्णोदधिनिमग्न एव कालेनाऽग्रासि | सर्वान् निधीन सर्वाञ्च वसुधामासाद्याऽपि लुब्धस्य मनः कदाऽपि न विरमति | किन्तु घृताहुत्या वह्निरिवाऽधिकं वर्धत एव ।।५४||
170