________________
सूक्तमुक्तावली बलिनृपवञ्चनाय वामनीभूय वासुदेवोऽपि श्रीकृष्णो लोके लघुतामापत् । ये कपटिनस्तत्सङ्गतिरपि त्यज्यताम् । यतस्तै मायाविनोऽतिप्रियतमान्निजमातापित्रादिस्वजनानपि कर्मबन्धनमवगण्य कुबुद्ध्या वञ्चयन्ति । भव्यानपि स्वीयकपटजालेनाऽधोगति प्रापयन्ति ||२||
अथ २१-लोभ-विषयेसुणि वयण सयाणे चित्तमा लोभ माडणे, सकल व्यसन केरो मार्ग ए लोभ जाणे । इक ख्रिण पण एने संग रंगे म लागे, भव भव दुख दे ए लोभने दूर त्यागे ॥५३॥
भो भो लोका ! यूयं धूर्तादेमिष्टवचनश्रवणेन मनसि मनागपि लोमं मा कुरुत यदसौ व्यसनाद्यसत्कृत्यानां मूलमस्ति सर्वापदां च निदानमस्ति । लेशतोऽपि लोभसंगमे कृते सति जन्मजन्मान्तरीयं दुःखमाप्नुवन्ति नराः । यतो लोभेन चलचित्तास्ते परत्र रौरवीयां वेदनामिहापि चातिदुःखानिसहन्ते। अतः सर्वप्रकारेण लोभस्त्यक्तव्यः ||५३||
४३-अथ लोभेन क्लिश्यतः . सुभूमचक्रवर्तिनः कथा
पुरा किल सुभूमचक्रवर्ती भारतस्य षट्खण्डानि साधयित्वा लोभग्रस्तोऽभवत् । सर्वतोऽधिकोऽहं भवेयमिति बुद्धया धातकीखण्डस्याऽपि तावन्ति खण्डानि साधयितुमैच्छत् । तदनु लवणसमुद्रे देवसहस्रवाह्यं चर्मरत्नममुञ्चत् तत्र च सकलबलयुतः स आरूढवान् । ततः सहस्रदेवास्तच्चर्मरत्नं नीत्वा सागरान्तश्चेलुः ।
169