________________
सूक्तमुक्तावली अयमेतत्सारांशः-सुयोधनो मानी भवन् सकुलो यथाऽनश्यत् तथैव गर्वकारिणामन्येषामपि सर्वनाशो भवति । अतोऽहङ्कारः सर्वथा सर्वैरेव त्याज्यः ।
अथ २०-मायोपरि सदुपदेशःनिठुरपणु निवारी हीयडे हेज धारी, परिहर छल माया जे असंतोषकारी । मयुर मधुर बोले तो हि विधास नाऽऽणे, अहिगिलण प्रमाणे मायिने लोक जाणे
॥१॥ इह जगति ये मायाविनो भवन्ति, ते मुखे मधुरा हृदये तु निर्दयाः क्रूरतामेव ध्रियन्ते । भव्यानपि निजकपटजाले पातयन्ति । सन्तोषलेशोऽपि तन्मनसि नैव तिष्ठति । मायाविनां मधुरवचनेऽपि विश्वासो न भवति कस्याऽपि । यथा- मयूरो मिष्टमालपन्नहिं सपुच्छं गिलत्येव । अतो माया हेया, विदितप्रायमेवैतत् यन्मल्लिनाथजीवो यावज्जीवंसावा किञ्चिदपि नाचरितवान्, केवलंमायया तपोवृद्धिमकृत, तावतैव तस्य स्त्रीवेदं कर्म बद्धमभूत् । अतो भवभीरुभिरुत्तमजनैस्त्याज्यैव माया ||१|| म कर म कर माया दंभ दोषगु छाया, नरय तिरिय केरा जन्म दे जेह माया । बलिनूप छलवाने विष्णु माया वहता, लहुयपणु लमु जे यामना रूप लेता
॥५२॥ किञ्चेयं माया दोषरूपा विषवृक्षवल्ली विद्यते । जनांश्च नारकतिर्यग्गतिं नयति । अतो हे लोका ! यूयं तां मायां मा कुरुत ।
168