________________
जहा लाहो तहा लोहो, लाहा लोहो पयड्ढड़ दो मासकणयकज्जं, कोडीए वि न निट्ठियं
॥१॥ प्राणिनां यथा यथा लाभो भवति, तथा तथा लाभाल्लोभो वर्धते । तत्रैव दृष्टान्ततया दर्शयन्नाह - 'दो मासेति' पुरा माषद्वयमात्रस्वर्णकृते ममाऽऽसीद्या तृष्णा सा कोट्यापि न निष्ठितार्था - तृप्ता नाऽभूत् किन्तु ततोऽप्यग्रेऽधिकतया च ववृधे । अतः सैव सर्वाऽधिकक्लेशकरी, केवलमेकः सन्तोष एव जगति सर्वाऽतिशयसुखदायीति मत्वा स कपिलद्विजस्तत्क्षणमेव पञ्चमुष्टिलुञ्चनं विधाय नृपान्तिकमागात् ।
तदनु यदा नृपाय धर्मलाभं दत्त्वा समस्थित । तदा तं नृपोऽपृच्छत्भोः ! किमकारि ? तेनोक्तम् - यदादिष्टं भवता विचार्यागच्छेतीदमेव श्रेयस्करं विदित्वा चारित्रमग्राहि । अथोत्थाय नृपेण नमस्कृतस्ततो विजÇ मार्गे च पञ्चशतचौरान् प्रत्यबोधयत् । तदनु निर्मलमप्रतिपाति केवलज्ञानमाप्य स कपिलमुनिर्मोक्षमयासीत् । स इव यो लोभं त्यक्ष्यति स सुखी भविष्यति, यो न त्यक्ष्यति स महादुःखी भविष्यति नरकादिके च । अतोऽधिकलोभो हेय एव सद्भिः ।
|
सूक्तमुक्तावली
अथ २२ - दया-विषये
सुकृत कलपवेली लच्छि विद्या सहेली, विरति रमणि - केली शांतिराजा महेली | सकल गुण भलेरी जे दया जीवकेरी, निज हृदय धरी ते साधिए मुक्ति सेरी
172
॥५५॥
यथा - इह संसारे नूनमियं दया सुकृतकल्पवल्ली विद्यते ।