SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली अथ कियत्यपि समयेऽतीते सा रेणुका भर्तारमापृच्छय स्वसुर्मिलनाय हस्तिनागपुरमगात् । तत्र तामालोक्य तद्रूपमोहितो राजा तां रेणुकां स्वैरमभुङ्क्त । तेन दुराचारेणाऽन्तर्वीमपितामवेत्य जमदग्निस्ततः स्वाश्रममानीतवान् । इतश्च तापसीविद्यानिपुणस्तत्कुक्षिजः परशुरामः कोपेन शीलभ्रष्टं मातरं हतवान् । तदनु हस्तिनागपुरमागत्य भ्रष्टशीलमनन्तवीर्यराजमप्यहन् । ततस्तत्पुत्रः कृत्यवीर्यस्तत्पितरं जमदग्निं निधनं निनाय | तत एधमानकोपः परशुराम सप्तवारमिमां वसुधां निःक्षत्रियां व्यधत्त । याः काश्चिदन्तर्वत्न्यस्तत्पत्न्यो दृष्टास्ता अपि जघान । मारिते कृत्यवीर्ये तत्पत्नी सगर्भा तद्भयेन नश्यन्ती वनमागत्य कस्यचित्तापसस्याऽऽश्रमे भूमिगृहे छन्नमवात्सीत, तत्रैव तस्याः पुत्र उदपद्यत । भूमिगृहे जाततया सुभूम इति तन्नाम धृतवती । ततस्तं स तापसः सर्वासु कलासु सुशिक्षितमकरोत् । अथैकदा सञ्जात-यौवनः स मातरमपृच्छत्- हे मातः ! पृथ्वीयत्येव वर्तते ? तयोक्तं- हे पुत्र! पृथ्वी तु महत्यस्ति, परमहमत्र भीत्या तिष्ठामि । पुत्रोऽवदत्- कुतस्ते भीतिः ? तयोक्तम्- वत्स ! श्रूयताम, परशुरामस्ते पितृपितामहौ निहत्य हस्तिनागपुरे राज्यं करोति । किमधिकं वच्मि-स दुर्मद इमां धरां सप्तधा गर्भगतैरपि क्षत्रियसन्तानैः शून्यामकरोत् । तत एव मे महती भीतिरस्ति । तदाकर्णनेन समुत्पन्नक्रोधः स तत्कालमेव भूमिगृहाबहिर्भूय परितः पश्यन् क्रमतः कियनिर्दिनैर्हस्तिनागपुरमगात् । तत्र चक्रप्रहारेण निजपित्रादिघातिनं परशुरामं निहत्य पैतृकं चक्रवर्तित्वमग्रहीत् । -165
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy