________________
सूक्तमुक्तावली ततः सोऽप्येकविंशतिकृत्वः पृथिव्यामब्राह्मण्यं विदधे ।
भो भव्याः ! पश्यत, एतौ परस्परं सम्बन्धिनावपि क्रोधावेशादीदृशं गर्हितं कर्म चक्राते । येन तयोर्महानरके वसतिर्जाता । अतः क्रोधः सर्वथा त्याज्यः । क्रोधेन वशीकृतस्य कोटिजन्मार्जितानि संयमफलानि विलीयन्ते, नरके च निवासो जायते । अतः शान्ति विधित्सुना जनेन कस्मैचिदपि नैव कोपनीयम् ।
अथ १९-मान-विषयेविनय वन तणी जे मूल शाखा विमोडे, सुगुण कनक केरी शृंखला बंध तोडे । उनमद करि दोडे मान ते मत्त हाथी, निज यश करि लेजे अन्यथा दूर आथी
॥४९॥ इह जगति मानलक्षणः प्रमत्तहस्ती विनयतरोर्मूलं शाखां च त्रोटयन समूलोच्छेदं कुरुते । तथा सद्गुणरूपां स्वर्णशृङ्खलां छित्त्वा स्वैरमितस्ततो धावति । अतः सकलसद्गुणविध्वंसकारी मानः सर्वथा सहेय एव । लेशतोऽप्येष यस्मिस्तिष्ठति तस्माद्दूर एव विमुखीभूय विनयादिसर्वे गुणा वर्तन्ते । अत्राऽर्थे बाहुबलस्य दृष्टान्तोऽवगन्तव्यः। तेन स्वात्मना त्यक्तेऽहङ्कारे झटित्येव तस्य केवलज्ञानमप्यभूदिति प्रसिद्धतयाऽत्र नाऽलेखि ||४६| विषम विष समो ए मान ते सर्प जाणो, मनुज विकल होवे एण डंके जडाणो । इह न परिहस्यो जो मान दुर्योधने तो, निज कुल विणसाड्यो मानने जे यहंतो ॥५०॥ 166