________________
सूक्तमुक्तावली तर्हि मे महापातकानि लगेयुरिति, परं तयैकमपि नाऽमन्यत ।
' तदनुतेनाऽतिप्रार्थिता साऽवक्-हे प्राणेश! अन्यशपथैरलमेकस्यैवाऽस्य मुनेः शपथं कृत्वा जिगमिषसि तर्हि व्रज । तदोक्तं तेन- हे प्रियतमे ! कार्य कृत्वा त्वदन्तिके नागमिष्यामि तर्खेतत्तापसस्य यानि पापानि सन्ति तानि सर्वाणि मे लगेयुः । हे प्रिये ! एतानि किल्बिषाणि ग्रहीतुं योग्यानि न सन्ति, तथाऽपि त्वदर्थमहं गृह्णामि ।
इत्थं तयोर्वचनमाकर्ण्य प्रवृद्धकोपानलः स तापस उभाभ्यां पाणिभ्यां चटकं चटकीञ्च गृहीत्वा पप्रच्छ- किं रे! जगति महापापिष्ठं मां कथं युवामद्भूताम्? तद्ब्रूतम्। चटकेनोक्तं- पापकारणं पश्चाद्वदिष्यामि प्रथमं त्वमेव कथय कियन्तं धर्म त्वमकृथा इति । मया ते सर्वे गुणा लक्षिताः, परं त्वमधुनापि साधुगुणं नैव वेत्सि, तमुन्यविधो धर्मस्त्वयि कथं संभाव्येत? तदा तापसो न्यगदत- रे चटक ! त्वं किं कथयसि? पक्षी भूत्वा त्वं यदि धर्म वेत्सि तर्हि त्वदपेक्षयाऽधिकमेव जानामि । तत्र किं सन्दिह्यते ?
पुनश्चटकोऽवदत्- भो मुने ! यदि जानासि तर्हि कथं न निगदसि ?। तापसोऽवक्-अहं जानामि न जानामि वा तेन ते किम्? यन्मां महापापिष्ठमुक्तवानसि तदर्शय । इति तापसाग्रहं विलोक्य चटकस्तदैव कथयितुं प्रावर्तत | तथाहि- हे तापस ! निशम्यतामहं यत्कथयामि | त्वदीयदेवीभागवतादिपुराणे व्यासेनोक्तम्अपुत्रस्य गतिर्नाऽस्ति, स्वर्गो नैव कदाचन । तस्मात्पुत्रमुखं दृष्ट्वा, स्वर्ग यान्ति सुखं नराः 1811
इति हेतोः पुत्रमनुत्पाद्य यदकारियत्क्रियते यच्च करिष्यत्यग्रे
-163