________________
सूक्तमुक्तावली वीक्ष्य जैनदेवेन मिथ्यात्वी भणितः- भोः ! पश्य मया धर्मः परीक्ष्यते, इत्युदीर्य तन्मार्ग एकतो लघुभेकान् परतस्तीक्ष्णमुखाञ्छूलान् विकृत्य तस्थतुः । तावत्तत्र समेतः स साधुरेकत्र सूक्ष्मजीवानपरत्र शूलान् विलोक्य व्यचिन्तयत्- अहो ! किमत्र विधेयम् ? आत्मविराधनात इहैव किञ्चिद्दुःखं भविष्यति । परं जीवविराधने सति नरके महती यातना चिरं भाविनीति मत्वा भेकव्याप्तमार्ग त्यक्त्वा शूलाश्रितेन मार्गेणैव निरगात् । तदा चरणाभ्यामसृक्षु निर्गलत्स्वपि मनागपि खेदं नाऽऽनीतवान् । तदा जैनदेवस्तच्चरणयोर्निपत्य तमस्तावीत् कथितञ्चभो मिथ्यात्विन् ! जैनधर्मस्य कीदृशी महिमाऽस्तीति दृष्टम् ?
__ अथाऽग्रे गत्वा तौ देवावेकस्यामटव्यां समागत्य तपस्विनं जमदग्निमपश्यताम् । तदा कृष्टक्षेत्रे न गन्तव्यं, पतितं फलादिकं भक्ष्यम्, इति मतमालम्बमानः, स्वान्ये सर्वे मलिना न साधीयांस, इति जानानो देवो जैनदेवं कथितवान्- भो ! अत्र स्थीयताञ्चैष तपस्वी परीक्ष्यताम् ।
इत्युदीर्य चटकमिथुनीभूय जमदग्निमुनेरतिलम्बिते सघने धवलतरे श्मश्रुणि नीडं विरच्य तस्थौ । तत्र चटकश्चटकीमवक्- हे प्रिये ! त्वमत्र तिष्ठ, अहं कस्मैचित्कार्याय बहिर्गच्छामि । तदा साऽवक्-हे नाथ ! त्वमन्यत्र मा याहि । तेनोक्तं-कथम् ? तयोक्तंतत्कारणं कथयामि निशम्यताम् । तव काचिदन्या प्रिया रागिणी भूत्वा किलाऽवरोधयेत् । तदा तव विरहादहं दुःखिनी स्यामतो वच्मि त्वं मा गा इति । तदा तस्या विश्रम्भकृते चटकोऽनेकशपथानकरोत्यथा हे प्रिये! यद्यहमन्यस्या वशीभूय त्वां त्यजानि वा नागच्छानि वा
162