________________
सूक्तमुक्तावली नाऽन्यथेति भावः । किञ्च-यदा भव्यो जीवः सद्गुरु-शिक्षा हृदि धारयति तदैव मनुष्यत्वं सफलीकर्तुमर्हति । अतः सद्गुरुशिक्षां हृदि धृत्वा सर्वैरुपशमवद्भिर्भाव्यम् । क्रोधस्तु सर्वथा हेय एवेत्यवगन्तव्यम् ||४७|| धरणि 'परशुरामे' क्रोध निःक्षत्रि कीथी, धरणि 'सुभूमचक्रे' क्रोध निब्रह्म कीधी । नरक गति सहायी क्रोध ए दुःखदाई, वरज वरज भाई ! प्रीति कीजे वधाई
૪૮ના . अन्यच्च-इह पुरा कश्चन परशुरामः क्रोधादेव सकलां महीं निःक्षत्रीयां व्यधात् । तथा सुभूम-चक्रवर्तीमां पृथ्वी ब्रह्महीनामकरोत् । अत्राऽपि क्रोध एवैतावद्धिंसानिदानम् । हे भव्या ! अतो भवन्तो नरकदातारं सार्वलौकिकक्लेशकारिणं क्रोधमेनं सहर्ष त्यजत । किं बहुना ? यः क्रोधो मित्रमप्यमित्रं क्षणादेव विधत्ते तमवश्यं त्यजन्तु पुनरखिलैः सार्धं प्रीतिं भजत ||४८||
४१-अथ क्रोधोपरि परशुराम
सुभूमचक्रवर्तिनोः प्रबन्धःयथा-प्रथमे देवलोके द्वौ देवौ प्रत्यहं मिथो धर्मविषये विवदमानावास्ताम् । तत्रैको मिथ्यात्वी चैको जैनी च । तावन्यदा स्वस्वधर्मस्य महिमानं वर्णयन्तौ तत्परीक्षाकृते मर्त्यलोकमैताम् ।
तत्राऽवसरे मिथिलानगरीनरपतिः स्वभवन एव मस्तकलुञ्चनं विधाय संयमं लात्वा विहरन ताभ्यां दूरादालोकितः । तमागच्छन्तं
-161