________________
सूक्तमुक्तावली सुश्रावकस्तच्छिष्य इव सदैव तस्य शुद्धाहारलब्धये विचिन्तयति स्म । तत्राऽन्यदा कोऽपि रथकारः सपरिवारः सत्काष्ठं छेत्तुमागात् । स रसवती पक्त्वा यदा भोक्तुमैच्छत् तदा स मृगेण सहाऽऽगच्छन्तं बलभद्रमुनिं ददर्श | तस्मिन्नवसरे स्वं धन्यं मन्वानः स भावेन सह प्रासुकाहारं तं प्रत्यलाभयत् । यद्यहमपि मानुषो भवेयं तर्हि एवमेव मुनये शुद्धमाहारं दद्यामिति मृगस्तदानीं शुभभावनामकरोत् । अद्य मे दिनं धन्यं यन्मुनिदर्शनप्रतिलाभादिकमिह वनेऽप्यभूत् । इत्थं रथकारोऽपि मुनिदानदानात्सद्भावमकरोत् । मुनिरपि निजध्याननिमग्न आसीत् । अस्मिन्नवसरे सद्भावं भजतां तेषां त्रयाणामुपरि स एवार्धच्छिन्नप्रायो महातरुर्वातनुन्नः पपात । तत्पतनेन त्रयोऽपि मृत्वा पञ्चमं ब्रह्मदेवलोकं प्रापुः । अमीषामीदृशदेवलोकप्राप्ति वनात एव समुदपद्यतेत्यवगन्तव्यम्। बलदेवमुनिकथानकमतिविस्तरं ग्रन्थान्तरादवगन्तव्यमिह तु भावनाप्रसङ्गात्संक्षिप्तमेवाऽदर्शि |
अथ १८-क्रोध-विषयेतृण दहन दहंतो वस्तु ज्यूं सर्व बाले, गुण रयण भरी त्यूं क्रोध काया प्रजाले । प्रशम जलद धारा वह्निने क्रोध यारे, मनुअ भव समारे सद्गुरु सीख धारे
૪ળા क्रोधो न विधेय इति दृष्टान्तेन द्रढयन्नाह-इहाऽतिगर्हितः क्रोधोऽगिस्तृणमिव गुणरत्नराशिसम्पूर्णमप्यदः शरीरं क्षणमात्रेण भस्मसात्करोति । वर्धिष्णुरेष कोपाऽग्निः प्रशमजलवृष्टिं विना न शाम्यति । यदा प्राणी शमतां भजते तदैव क्रोधः शाम्यति-नश्यति
160