________________
सूक्तमुक्तावली
बलभद्रो जलमानेतुमगमत् । कृष्ण एकस्य तरोस्तले चरणोपरि चरणं निधाय सुष्वाप | तावद्यो हि पुरा स्वेन कृष्णस्य मरणं नेमिनाथोक्तमाकलय्य तन्मुधा कर्तुं वने वसति स्म स जराकुमारः कृष्णबन्धुर्दूरतस्तत्पदे पद्ममालोक्य मृगभ्रान्त्या बाणं क्षिप्त्वा तदीयचरणमविध्यत् । अथ समीपागतस्तमुपलक्ष्य नितरामखिद्यत । तदा खेदेन किं स्यात् ? यद्भाव्यमासीत्तज्जातमेवेति मिष्टवाक्यैः कृष्णस्तमवक्- हे बन्धो ! त्वं मा शोचीः, गृहं याहि । नो चेबलभद्रः समागत्य त्वां हनिष्यति । किञ्चिदपि तवाऽत्र दोषो नाऽस्ति यतो दैवं कोऽपि मुधा कर्तुं न शक्नोति ।
अथ तस्मिन् गते कृष्णो ममार | तावज्जलमानीय बलदेवः समागात् । कृष्णं सुप्तं मत्वाऽनेकोपायेनोत्थापितवान् । यदा किञ्चिदपि स नोत्ततार न चोत्तस्थौ, तथाऽपि स्नेहमराद्रुष्टं ज्ञात्वा तमुत्पाट्य षण्मासानितस्ततः स पर्याटत् । ततो देवैरनेकशवादिदृष्टान्तेन प्रतिबोधितः कृष्णशवमग्रिना संस्कृतवान् । वैराग्याच्चारित्रं च ललौ, स वनमागत्य तपस्तप्तुं लग्नः ।
सोऽन्यदा पारणायै पुरमगात् । पथि कूपान्तिके काचिज्जलहारिणी तद्रूपविलोकनान्मोहमुपगता परवशीभूय घटभ्रान्त्या पुत्रगले रज्जुयावद्बध्नाति तावदन्यैर्निवारिता। तदालोक्य बलभद्रमुनिर्दध्यौअहो! मद्रूपेण मोहमुपैति स्त्रीजनः। अनर्थः संभवति मयाऽतः पुरमध्ये नाऽऽगन्तव्यम् । वन एव प्रासुकाऽऽहारं लब्ध्वा व्रतपारणं विधातव्यमित्यभिगृह्य वनमागात्।
तत्र तस्योपदेशं श्रुत्वाऽनेके पशवोऽपिधर्ममापुः । तत्रैको मृगः
159