________________
सूक्तमुक्तावली तच्छुद्धिर्न मिलिता । इतश्च स राजकुमारः कस्यचित्तापसस्याऽऽश्रमे सम्प्राप्तः | तस्य च कुमारपित्रा सह गाढसंबन्धः पुराऽऽसीत् । तेन स तापसस्तं महता स्नेहेन स्वाश्रमेऽतिष्ठिपत, ततः स्वशिष्यं कृतवान् तस्य च वल्कलचीरीति नाम चक्रे |
अथैकदा तत्राश्रमे समुपविष्टः स तत्पात्राणि कौतूहलात्पश्यन् तत्र धर्मक्रियोपकरणं ददर्श । तदनु तदर्चनपात्रप्रमार्जनादिकं वीक्षमाणः स ऊहापोहाभ्यां जातिस्मृतिमलब्ध । तेन स भवान्तरीयं स्वस्वरूपमपश्यत् । तत्र यत्तेन चारित्रं पालितं तदपि ज्ञातम् । अत इदानीमपि शुभां भावनां भावयन् स क्षपकश्रेणीमधिरुह्य केवलीभूय मोक्षं प्राप । अतो धर्मभावनाभावनं श्रेयस्करमवसेयं सत्प्राणिभिः ।
४०-पुनरपि भावनोपरि बलभद्र
मृग-रथकाराणां कथातथा हि-द्वारिकापुर्या कृष्णवासुदेव-बलदेवौ राज्यं चक्राते। तत्राऽन्यदा तत्पुत्राः शाम्ब-प्रद्युम्नादयो वनं गत्वा बाल्यचापल्याद् द्वैपायनमृषि लोष्टयष्ट्यादिना ताडयामासुः । तदाऽतिपीडितः स ऋषिस्तेभ्यः शापमेवं दत्तवान्- भो भो दुष्टाः ! यात यात, मत्पीडां कुर्वतां युष्माकमिमां द्वारिकां नगरीमग्नित्वा भस्मसात्करिष्यामीति । अथ स ऋषिस्तादृशनिदानकरणेन मृत्वाऽग्रिकुमारोऽभूत् । ततः सोऽग्रिकुमारो देवस्तौ वासुदेवबलदेवौ मुक्त्वा षट्पञ्चाशत्कोटिनगरान्तर्वासिलोकैस्तथा पुराबहिर्वासिद्विसप्ततिकोटियादवैः सहितां द्वारिकापुरीं सकलां भस्मसादकरोत् ।
तदनुतौ कृष्णबलभद्रौवनमुपेतौ। तत्र कृष्णस्तृषार्तोजातस्तदा 158