________________
सूक्तमुक्तावली
वंशमेकं समारोप्य चटित्वा तदुपरि नाटकं कर्तुं लग्नः । अधश्च नटी मृदङ्गं वादयामास । तदा नटीरूपं विलोक्य तत्क्षणं मदनशराऽऽहतो नृपो मनसि यद्यसौ नटो नीचैः पतित्वा म्रियेत, तदैनां नटीं सुखेन प्राप्नुयामिति दुर्ध्यायन् कृष्णलेश्यागृहे न्यपतत् । इतः स नटो वंशोपरि निराधारादिनानाविधं नाटकं विधाय दर्शकानां मनांसि समरञ्जयत् । सर्वे दर्शका रञ्जन्तस्तं नटं प्रशंसयामासुः । ईदृशं नाटकं केऽप्यन्ये कुत्राऽपि न चक्रुरिति सर्वे द्रष्टारो जगदुः ।
अथ वंशादवतीर्य नटो राजानं प्राणमत् । नृपश्चैवमवादीत् - हे नट ! अत्र किं तिष्ठसि ? पुनर्वंशोपरि चटित्वा नाट्यं दर्शय । विलम्बं मा कुरु, तदा धिक्तं धिक् तमित्यर्थको ढीगां ढीगामिति मृदङ्गनाद उदपद्यत । अन्ये राजानस्तस्मै पारितोषिकं ददुः पुरा, तद्गुणान् गायन् नृपादेशात् पुनर्वंशाग्रे चटितो नटः । सर्वे लोका आश्चर्यमापुः, कदाऽसौ वंशाग्रादधः पतित्वा मरिष्यति । इति प्रतीक्षमाणो राजा दुर्ध्यान एव निमग्न आसीत् ।
|
द्वितीयवारमपि नाट्यं कृत्वाऽध उत्तीर्य नृपाग्रे समागतः । तदाऽपि नृपेणोक्तं- भो नट ! मुधा बहुधाऽधः किमवतरसि ? पुनरपि वंशाग्र एव नाटकविधानेन सर्वान् रञ्जय । अलमधुना विलम्बेन, मुहुर्मुहुरेवं नृपादेशं शृण्वन्तः सर्वे दर्शकाः स नटश्च मनस्येवं दध्युःअहो ! मुहुर्मुहुरस्यैवमादेशकारिणो राज्ञो मनसि कुबुद्धिर्दृश्यते । नो चेदेवं पुनःपुनः कथमादिशति ? |
I
अथ तदाज्ञया नटस्तृतीयवारमपि वंशाग्रमारुह्य नानाविधं नाट्यं कर्तुं लग्नः । अधश्च सा नटी विचिन्तयति स्म - अहो !
155