________________
सूक्तमुक्तावली ३७-एतस्मिन्लेव विषये एलाचीकुमारस्य प्रबन्धः
यथा-एलापुरवर्धनाऽभिधे नगरे कस्यचिदिभ्यस्य व्यवहारिण एलाचीपुत्र आसीत् । स शैशवानन्तरं द्विसप्ततिकलासु निपुणो जज्ञे मातापित्रोच प्रेयानभूत् ।
तत्रैकदा कश्चन नटमण्डल आगात् । तत्पुत्रीमतिरूपवतीमालोक्य स नितरां मुमोह । ततः स नटमवक्- भो नट ! निजपुत्रीं मे देहि । नटेनोक्तम्- भोः कुमारः ! लोके सर्वैः स्वजातिमध्ये पुत्री दीयते। त्वं विजातीयोऽसि अतस्ते सुतामेनां न दित्सामि। पुनस्तेन प्रचुरधनलोभे दर्शिते नटोऽवदत्- भोः कुमार ! यदि मम पुत्री परिणेतुमिच्छसि, तर्हि मद्वेषेण मत्सविधे स्थित्वा नाटकी विद्यां शिक्षस्व | कमपि राजानं च विद्यया प्रसाद्य धनमर्जय तदा ते पुत्रीं दास्यामि ।
तद्वचोऽङ्गीकृत्य स पितरौ जगाद- हे पितरौ ! अहं किल नटवेषेण तत्सार्थे स्थातुमिच्छामि युवामनुज्ञां दत्तम् । यतो मे तत्पुत्रीपरिणयो भवेत् । ताभ्यामुक्तम्- हे पुत्र ! त्वामावां तत्पुत्र्या अप्यधिकसुन्दरी कन्यां परिणाययिष्यावः, तत्सा) मा गाः । परं सर्वानवमत्य स नटेन साकं तद्वेषेण निरगात् । . तदनुस तत्सार्थे तिष्ठन्तदीयनृत्यादिविद्यासुनैपुण्यमधिगत्य नाटकं कर्तुं लग्नः । प्रतिदिनमेवं कुर्वन् धनमर्जयित्वा तस्मै नटाय समार्पयत् । अथैकदा नट्या सह बेनातटनगरमगात् । तत्र राजानममिलत, सोऽपि तस्य नाट्यं कर्तुमादेशञ्चक्रे ।
__अथ नृपादिसकलपौरजनसुमण्डितप्रदेशमध्ये एलाचीकुमारो 154