________________
सूक्तमुक्तावली
किञ्च- भावनां भावयन्नेव भरतचक्रवर्ती, इलाचीकुमारश्च केवलज्ञानमाप । तथा जीर्णश्रेष्ठी स्वर्गीयं सुखमैत् । किमधिकं यो वल्कलचीरी सोऽपि भावनाबलात्केवलज्ञानमियाय । तथा बलभद्रमुनिमृगौ पञ्चमे ब्रह्मदेवलोके देवत्वेनोत्पन्नौ । भावनातः कियन्तो मुक्ताश्चान्ये मोक्षमाप्स्यन्ति । अतः सर्वैरेव भावना भावनीया || ४६ || notto
३६ - अथ भावनाफलोपरि भरतचक्रवर्तिनः कथानकम्
इह भरतचक्रवर्ती षट्खण्डां पृथिवीं संसाध्य सञ्जातदिग्विजयश्रीभासुरः स्वगृहमागात् । तत्र च राज्यसुखमनुभवन्नासीत् । सोऽन्यदाऽऽदर्शभवने समुपागतः सुखासीनः शरीरशोभां वीक्षितुमलगत् । सर्वाङ्गं शोभमानमालोक्य केवलमनामिकामेव मुद्रिकाविहीनतयाऽभव्यामपश्यत् । तदा तेनाऽचिन्ति-सर्वाङ्गं मे सभूषणं शोभते । इयमेकैवाऽङ्गुली तद्विहीना न शोभते । अहो ! यदेकाप्यनामिकाऽऽभरणवियुक्तेति तर्हि सर्वाङ्गं साभरणमपि शोभां नैव धत्ते । यद्यखिलेष्वाभरणं न स्यात्तदा शरीरस्य शोभा कीदृशी स्यात् ? इति विचिन्त्य सर्वाङ्गेभ्य आभरणान्यपाकरोत् । तदा तच्छरीरं विच्छायमपश्यत् । तदैव सोऽनित्यभावं भावयन क्षपकश्रेणीमधिगच्छन घात्यं कर्म क्षपयित्वा केवलज्ञानं प्रपेदे । तत्कालं साधुवेषं तस्मै शासनदेवता ददौ । तदा दशसहस्रनृपैः सह स ततो विजÇ । चिरं पृथिवीं पवित्रयन् जनान् प्रतिबोधयन्नष्टापदतीर्थमागत्य अघात्यानि कर्माणि निहत्य भरतचक्रवर्ती मोक्षमियाय, एतदनित्यभावनायाः फलमवगन्तव्यं सर्वैर्भव्यैः ।
153