________________
सूक्तमुक्तावली विष्णुकुमारो लक्षयोजनाऽऽयतं शरीरं विकृत्यैकं पदं पूर्वस्यां दिशि द्वितीयं पदं प्रतीच्यां न्यस्य तमवोचत- हे नमुचे ! तृतीयं चरणं धर्तुं भूमिं ददस्व नो चेत्त्वं स्वपिहि । तदा भूमिमप्राप्य सुप्तस्य तस्य पृष्ठ एव स तृतीयं चरणं न्यधात् । तेन नमुचिर्वसुन्धरां विवेश, इत्थं स तपःप्रभावात्सर्वमुपसर्ग न्यवारयत् तादृशं रूपं च विचक्रे ।
तत्तपःप्रभावादनेके सत्पुरुषाः संसारं तेरुस्तरिष्यन्ति च । इति तपोमाहात्म्यमतुलं मत्वा स्वात्महितेच्छुभिः सर्वैरपि तदर्जने प्रयतितव्यम् । प्रमादः स्वल्पोऽपि नैव करणीयः ।
अथ १७-भावना-विषयेमन विण मिलयो ज्यूं चावयो दंत हीणे, गुरु विण भणयो ज्यूं जीमयो ज्यूं अलूणे । जस विण बहु जीवी जीय ते ज्यूं न सोहे, तिम धरम न सोहे भावना जो न होहे ॥४५॥
मनो विना मित्रादेर्मिलनमिव, दन्तं विना चर्वणमिव, गुरुं विना ज्ञानार्जनमिव-पठनमिव, लवणं विना भोजनमिव, भावं विनाऽनुष्ठितो धर्मो बोध्यः । यथा यशोविहीनो नरो न शोभते, तथा धर्मोऽपि भावं विना नशोभते, नैव फलति च । अतोभावनापुरस्सरमेवधर्मोऽनुष्ठेयस्तथाकुर्वन्नेव फलमाप्नोति नान्यथा ||४५|| भरत नृप इलाची जीरणश्रेष्ठि भाये, वलि वल्कलचीरी केवलज्ञान पाये । हलधर हरिणो ज्युं पंचमें स्वर्ग जाए, इह ज गुण पसाये तास निस्तार थाए
૪જા 152