________________
सूक्तमुक्तावली
गात् । तदाकर्ण्य दुष्टेन नमुचिनाऽचिन्ति - यदनेन पुराऽहं निर्जित्य स्थानान्त्याजितोऽस्मि । अतोऽसौ मम वध्य एवेति विचिन्त्य चक्रवर्तिपार्श्वमेत्य तं पुरा न्यासीकृतं वरमयाचत । सोऽप्यवक्-मार्गय दास्यामि तदा दिनत्रयं मे राज्यं देहीति याचितवान । तथास्त्विति I निगद्य नृपोऽन्तःपुरमविशत्, नमुचिश्चक्रवर्त्यभूत् ।
तदा सर्वे प्रधानपौरा अधिकृतपुरुषाः सन्तो महान्तस्तदन्ये धर्माचार्यादयस्तन्मिलनाय समाजग्मुः परं स सुव्रताचार्यो नाऽगात् तदा तेन नमुचिचक्रवर्तिना लोकमुखेन तस्य कथापितम् । यथा-त्वं मम मिलनाय नाऽऽगाः, अतस्त्वं दिनत्रयाऽभ्यन्तरे मद्राज्यभूमिं त्यज नो चेद् घातयिष्यामि । एवं तदादेशं श्रुत्वा मुनिनाऽपि सङ्घमुखेन तस्यैवं कथापितम्- जैनसाधवः कस्याऽपि मिलनाय न गच्छन्ति, न च चातुर्मास्ये बहिरन्यत्र प्रयान्ति इति लोकैर्बहुधाऽभ्यर्थितोऽपि नमुचिर्निजादेशं न परावर्तयत किन्तु यातु यात्वित्येवाऽऽदिष्टम् ।
तदाचार्यो मेरोर्विष्णुकुमारमेतद्वृत्तमावेद्य समाकारयत्। सोऽपि तत्राऽऽगत्य गुरुमवन्दत । तत आचार्यः सर्वमादितो नमुचिनृपादेशमाचख्यौ । ततो विष्णुकुमारो महापद्मान्तिकं गत्वा जगाद - भोः ! साधोरुपसर्गं कथं करोषि ? तेनोक्तम् - किङ्करोमि, वचनेन बद्धोऽस्मि ।
I
तदनु नमुचिपार्श्वमेत्य तं बहुधा स प्रत्यबोधयत् परं मनागपि स नाऽबुध्यत । पुरा दत्ताऽऽदेशं मुधा नाऽकरोत् । यदि स मम राज्यतो न निर्गमिष्यति तर्हि तमवश्यमहं घातयिष्ये । तदुक्तमीदृशं श्रुत्वा विष्णुकुमारोऽवदत्- कुत्राऽपि किञ्चिदपि मे भूमिं दित्ससि न वा? तदा तेनोक्तम्-भवत्कथनेन पदत्रयां भूमिं ददामि । तत्राऽवसरे
I
151