________________
सूक्तमुक्तावली नमुचिरपि क्षितिभुजा सह तत्राऽऽगत्य निजौद्धत्येन गुरुणा सह विवदितुं लग्नः । तदैकेन क्षुल्लकेन शिष्येण सुखेन स विजिग्ये । निशि तान् विहन्तुं तरवारहस्तो नमुचिर्मुन्युपाश्रय आगतः, शासनदेवता तदा तं स्तब्धीचक्रे प्रभाते च सर्वे पौरास्तं भृशं निनिन्दुः ।
ततस्तेन लज्जितः स हस्तिनागपुरमगात् तत्र च पद्मोत्तराख्यनृपस्य राज्ञीद्वयमस्ति । एका ज्वालाऽभिधाना सम्यक्त्ववती द्वितीया लक्ष्मीदेवी मिथ्यात्विनी चास्ति । तत्र ज्वालाया विष्णुकुमारमहापद्मकुमारौ पुत्रावभूताम् ।
अथैकदा ज्वालादेवी जिनेश्वररथं लक्ष्मीदेवी च ब्रह्मणो रथमचीकरताम् । द्वौ रथौ नगरे भ्रामितौ परस्परमेकत्र मिलितौ । तदा दलद्वये विवादो जातः । तत्रावसरे मिथः कलहमालोक्य येन मार्गेण तत्राऽऽगतौ तेनैव मार्गेण राज्ञा तौ रथौ परावर्तितौ । तेन महापद्मकुमारो रुष्टो भूत्वा देशान्तरमगच्छत् । नानादेशकौतुकं पश्यन् महतीं समृद्धिमधिगच्छन् चक्रवर्तिराज्यमाप ।
अथाऽन्यदा स सार्वभौमश्रिया शोभमानः स्वनगरीमागतः । नमुचिरपि हस्तिनागपुरमनेकदेशान् परिभ्रम्य पुनः समायातः । स महापद्मकुमारममिलत्, सोऽपि तं प्रधानपदे न्ययुङ्क्त । पद्मोत्तरो राजा विष्णुकुमारेण सह सुव्रताचार्यसमीपे चारित्रं ललौ । इतश्च महापद्मचक्रवर्ती मातुर्मनोरथं रथभ्रमणात्मकं तदा पुपूरे । विष्णुकुमारो मुनिर्महतीं तपस्यां कृत्वा तत्प्रभावेण मेरुशिखरमासाद्य कायोत्सर्गे तस्थौ । इत्थं तपस्यतस्तस्य वर्षसहस्रं व्यत्यैत् ।
इतश्च सुव्रताचार्यो निजपरिवारैः सह तत्र चतुर्मासीं विधातुमा
150