________________
सूक्तमुक्तावली मधुरया भाषया भोक्तुं तमाजुहाव । तेनोक्तम्-त्वं याहि, अहमागच्छामि । साऽपि गत्वा पुनः पाचिता भोजनसामग्री सम्पन्ने च पाके तदन्तिकं द्वित्रिवारंदासीमप्रैषीत, तथापि तमनागतंवीक्ष्य स्वयमागत्य सा जगाद- हे स्वामिन् ! उत्तिष्ठ, वेलाऽतिक्रमो जातो मामपि च नितरां क्षुधा बाधते । तेनोत्तरितं दशममप्रतिबोध्य कथमुत्तिष्ठेयम् ?, तच्छ्रत्वा तया किञ्चिदाक्रोशमयप्रश्रयेण स भणितः- एष कामुको यदि न वेत्ति तर्हि त्वयापि गन्तव्यम् । इत्युक्त्वा पुनर्व्यगदत्- हे नाथ! इहेदानी दशमो न दृश्यते, स्वमेव दशमं जानीहि । इत्युत्तिष्ठ भुक्ष्व, तदुक्तमाकर्ण्यतत्क्षणमेव सर्पः कञ्चुकमिव क्षीणकर्मा स गणिकालयं त्यक्त्वा धर्मध्वजमुखवस्त्राद्युपकरणानि च लात्वा प्रभोरन्तिकमागात् । अथ पुनश्चारित्रं लात्वाऽऽत्मार्थमसाधयत् ।
इदमत्र सारतयाऽवधार्यम्-यथा स तपोमाहात्म्यात्तृणमात्रग्रहणेन दीनारराशिमकरोत् । तत्तपोमाहात्म्यं ज्ञात्वाऽन्यैरपि तथा सादरंतपो विधेयम् । पुनरयं मुनिर्भोग्यकर्मोदयाद्यथा चारित्राच्च्युतोऽपि शुभकर्मप्रादुर्भावात्स्वल्पादपि वेश्यावचनात्प्रतिबोधमाप, तथैवान्यैधर्मभ्रष्टैरपि भवभीरुभिः प्राणिमिर्निजात्मधर्म प्रमादं विहाय प्रयतितव्यम् ।
३५-पुनरपि तपःप्रभावोपरि विष्णुकुमारस्य कथानकम्तथाहि-उज्जयिन्यां पुर्या धर्माभिधानो राजास्ति । तस्य नमुचिनामा मिथ्यादृष्टिः प्रधानोऽस्ति । तत्राऽन्यदा पञ्चशतमुनियुतः सुव्रताचार्यः समागात् । तद्वन्दनार्थं सपौरः सकुटुम्बः क्षितीश आययौ ।
- 149