________________
सूक्तमुक्तावली अथ ततः परावर्तमानं मुनिमालोक्य झटिति तत्पुरो गत्वा तद्वस्त्रं धृत्वा तमेवमवदत्-हे नाथ! ममाऽबलाया उपरि रुष्टो भूत्वा कथं यासि ? यदि यासि तर्हि निजमेतावद्धनं गृहीत्वा व्रज | नो चेदत्रैव स्थित्वा मया सह सुखं भुअन्नेतदुपभोगं कुरु । इत्युदीर्य यावत्सा विरराम तावदेवमशरीरिणी वाक् प्रादुरासीत्- हे मुने ! मा गाः, अनया सहैव ते द्वादशवर्षाणि भोग्यकर्मोदयोऽस्ति सोऽन्यथा न भविष्यति । इत्याकाशवाणीं श्रुत्वा स नन्दिषेणो धर्मध्वजं मुखवस्त्रं पात्रादीन्युपकरणानि चोच्चैः स्थापयित्वा तत्रैव गणिकालयेऽतिष्ठत् ।
। परन्तु परमात्मनि दर्शनं विशुद्धमासीत् । ज्ञानादय आभ्यन्तरगुणा अपि निर्मला आसन् । "यस्येदृशी शुद्धात्मदशा वर्तते, स बाह्यनिमित्तकारणतया स्वगुणाऽनुभवमन्तराऽऽत्मानं निर्मलं कर्तुं न शक्नोति।" इति विचार्य सुभावनां भावयता तेन प्रतिज्ञातम्-यदत्राऽपि प्रतिदिनं दशजीवा मया प्रतिबोधनीया इति ।
ततस्तत्रस्थः सप्रत्यहंदश दश जीवान् प्रतिबोध्य वीरप्रभोस्तथैव स्थविरसमीपे प्राहिणोत् । इत्थं कुर्वन् द्वादशवर्षेषु गणिकालयस्थः सेवमानश्च तां द्विचत्वारिंशत्सहस्रजीवान् प्रतिबोध्य प्रभोस्तथा स्थविराणां समीपे प्रेषितवान् । तेऽपि तत्प्रतिबुद्धास्तयोरन्तिके दीक्षां ललुः |
इत्थं द्वादशवर्षस्तस्य कर्मसु क्षीणेष्वेकदा स नवजीवान् प्रत्यबोधयत् । तदा दशमो नाडिन्धमः समागात् । तेनोक्तम्-किम्भोः! त्वं सर्वान् प्रतिबोधयसि, परं स्वयं गर्हितां गणिकां सेवमानः कथं न प्रतिबोधमाप्नोषि ? तत्राऽवसरे पाके सम्पन्ने भोजनार्थं तदागमं प्रतीक्षमाणा कालातिक्रमे पाकेऽपि च शैत्यं गते सा तदन्तिकमेत्य 148