________________
सूक्तमुक्तावली
महोद्याने वीरप्रभुरागत्य समवसरत् । तं वन्दितुं सपरिवारः श्रेणिकराजस्तत्राऽगात् । भगवन्तं वन्दित्वा देशनां सर्वेऽशृण्वन् । तदा भगवद्वाणीं श्रुत्वा प्रतिबुद्धो नन्दिषेणः स्वालयमेत्य मातापितरौ संयमानुज्ञामयाचत । तदा ताभ्यां गृहवासाय बहुभिर्दृष्टान्तैः प्रतिबोधितोऽपि स तत्क्षणमञ्जसा वीरप्रभोरन्तिकमागत्य चारित्रप्रदानार्थमभ्यार्थयत ।
तत्रावसरे चाकाशवाण्यप्यभूत् - अस्येदानीं भोग्यकर्मोदयोऽवशिष्यत इति । भगवताऽपि तथैव भणितम् । सर्वमगणयन् मनसि च योऽधुना मया त्यज्यते सोऽग्रे मां कथं बाधिष्यत इति चिन्तयन् संयमाय समुत्सुकीभूय सद्यः प्रभोः पार्श्वे प्रव्रज्यां ललौ ।
ततः परं स शुष्करुक्षाऽऽहारादिनाऽतिदुष्करं तपः कुर्वन्नपि मदनेन विव्यथे । ततोऽतिदुःखीभूय झम्पापातं विदधद्देवतया निवारितः । ततः परं स महान्ति तपांसि कुर्वन् शरीरमस्थिमात्राऽवशेषमकार्षीत् ।
अथैकस्मिन् प्रस्तावे स राजगृहनगरे गोचर्यै व्रजन् भ्रमाद् गणिकालयं गत्वा धर्मलाभमदात् । तमालोक्य गणिका जगौ - एहि, परं त्वादृशेन शक्तिविहीनेन विरागिणा किं मे मनोरथः सेत्स्यसि ? मम धर्मलाभेनाऽलम् | केवलमर्थलाभ एवात्र सदाऽपेक्ष्यते । तस्या T ईदृशं हास्यवचनमाकर्ण्य मनस्यहङ्कारमानीय पुरः पतितं दर्भतृणमेकं लात्वा सोऽवक्-मम तपसः प्रभावादत्राऽधुना दीनारराशिर्जायतामित्युक्ते तत्कालमेव तत्र तच्छरीरप्रमाणोन्नता सार्धद्वादशकोटिदीनारराशिरजायत । अहन्तु रभसादवोचम्, मुनिस्तु सत्यमेव मदुक्तमकरोत् । इति महाद्भुतं तदालोक्य सा चमत्कृताऽभूत् ।
147