________________
सूक्तमुक्तावली पञ्चशततापसानां केवलज्ञानमुदपद्यत ।
ततोऽग्रे गत्वा समवसरणमालोक्य ते पप्रच्छु:- हे स्वामिन् ! किमेतद्विलोक्यते ? गौतमोऽवदत्। एतन्मम गुरोः समवसरणं विद्यते, तच्छ्रत्वाऽवशिष्टैकोत्तरपञ्चशततापसानामपि केवलज्ञानमुत्पन्नम-भूत् | इत्थं ते व्युत्तरपञ्चदशशततापसाः सर्वे केवलिनो बभूवुः । तदा गौतमस्तानशिक्षयत - भो महाशयाः! तत्र गत्वा यथाऽहं गुरुं वन्देयं, तथा भवद्भिरपि वन्दनीयस्तैरपि तदुक्तमङ्गीकृतम् । ते निजोत्पन्नं केवलं तस्य नाऽऽचचक्षिरे ।
अथ प्रभोः समवसरणमागत्य गौतमः प्रभु यथाविधि ववन्दे पृष्ठे च तानपश्यन् केवलिपङ्क्त्युपविष्टानशेषानद्राक्षीत् । तदानीं तानवोचत गौतमः - भो महाशयाः ! पूर्वं शिक्षिता अपि भवन्तः प्रभुवन्दनामकृत्वा तत्र कथमुपाविशन् ? अत्राऽवसरे भगवतोक्तम्हे गौतम ! केवलिनामेतेषामाशातनां मा कृथाः, तदा गौतमः प्रभुमपृच्छत् - हे प्रभो ! मम केवलमुदेष्यति न वा ? प्रभुणोक्तम् - तवाऽपि चरमे वयसि तदुत्पत्स्यते । तच्छ्रुत्वा गौतमो जहर्ष ।
एतस्याः कथायाः सारत्वेनैतद् ग्राह्यमस्ति । यथा-गौतमस्तपोभिर्महतीं लब्धिमाप, तबलेन दुष्करामपि तीर्थयात्रामकरोत,
युत्तरसार्धसहस्रतापसानभोजयत्, तथाऽन्यैरपि तपः कृत्वा लब्धि प्राप्य कर्मोन्मूलनं कार्यम्। ३४-पुनस्तपःप्रभावविषये नन्दिषेणमुनेः प्रबन्धः
यथा-राजगृहनगरे श्रेणिकराजस्य नन्दिषेणनामा तनयोऽभूत् । स यौवने पित्रा पञ्चशतकन्याभिः पर्यणायि । तत्राऽन्यदा
146