________________
सूक्तमुक्तावली पुरं प्राविशत् । कश्चित्सद्गृही भक्त्या तस्य पायसं प्रत्यलाभयत् । तल्लात्वा समागते गौतमे ते दध्युः- अहो ! इयता पायसेनाऽस्माकं तिलकमपि न सम्पत्स्यते, तर्हि तृप्तिः कथं भविष्यति ?।
__ यावदेवं विचिन्तयन्ति, तावद्गौतमेनोक्तम्- भो महानुभावा! युष्माभिः समागम्यतां । तदनु भोजनार्थमेकस्यां पङ्क्तौ सैकपञ्चशततापसानुपावेशयत्, तावतस्तानपरपङ्क्तौ, तृतीयस्यामपितावतस्तांस्तापसानुपावेशयत् । इति परिपाट्या समुपविष्टांस्तापसानशेषान् तत्र पायसे 'अक्षीणमानसी' लब्धिरिति मन्त्रमुच्चार्य्य निजाऽपृष्ठमारोपयन् परिवेष्य यथेच्छमभोजयत् । तदा स तानपृच्छत्- किं भोः ! कस्यचित् किञ्चिदपेक्षते ? तैरुक्तम्- वयं सर्वे तृप्ता अभूम | ततस्तत्पात्रादङ्गुष्ठे समुद्धृते पुरानीतप्रमाणं पायसं तत्पात्रेऽवशिशेष, तावता पायसेन स निजतृप्तिमकरोत् ।
तत्राऽवसरे तेषामश्नतां सद्भावनां भावयतामेकपङ्क्त्युपविष्टानामेकाधिकपञ्चशततापसानां तत्कालमुज्ज्वलं केवलज्ञान
मुत्पेदे।
ततोऽग्रे चलन् स तैः पृष्टः- हे स्वामिन् ! कुत्र गच्छसि ? तेनोक्तम्-निजगुरुसमीपम् । पुनस्तैरुक्तम् भवतो गुरवः कीदृशाः सन्ति ? तदा गौतमो गुरून् वर्णयन् जगाद-भोः तपस्विनः ! मम गुरोः स्वरूपमाकर्णयत । नूनमिह काले साक्षात्कल्पद्रुमोऽस्ति। स खलुअष्टविधमहाप्रातिहार्यरूपया बाह्यलक्ष्म्या शोशुभ्यमानोऽस्ति । सदा त्रिदशगणैः सेव्यमानो वर्तते । त्रिभुवननायकः छत्रचामरसिंहासनादिभिर्विराजते । इत्थं गुरुतरगुरुवर्णनमाकर्णयतां तेषामेकोत्तर
145