________________
सूक्तमुक्तावली ३३-तपःप्रभावोपरि लब्धिमतो
गौतमस्वामिनः कथानकम्श्रीमहावीरस्वामी भगवानेकदा देशनाकाले किलैवं जगाद | तथाहि-ये खलु स्वलब्ध्याऽष्टापदतीर्थयात्रां कुर्वन्ति, तेऽवश्यं सिद्ध्यन्ति । तदाकर्ण्य गौतमस्वामी भगवदाज्ञां लात्वा तथाकर्तुमचलत् । अनुक्रमेणाऽष्टापदतीर्थसमीपमागतः।
तत्र पूर्वतः संस्थितास्त्र्यधिकपञ्चदशशततपस्विनस्तमालोक्य परस्परमूचुः-अहो! वयं तपःकृशा एनमारुह्य यात्राङ्कतुन शक्नुमस्तर्हि करीन्द्रवत्स्थूलोऽसौ तदुपरि चटित्वा तां विधातुं कथं शक्ष्यति? अथ गौतमोऽपि सूर्यकरावलम्बतस्तमारुरोह । तत्राऽवसरे तं वीक्ष्य ते तापसा एवं निश्चिक्युः । नूनमसौलब्धिमानस्ति । नो चेत्कथमेतत्सम्भाव्यते । भवतु, यदाऽसौ पुनरत्र परावर्त्यति तदा वयमपि सर्वे तङ्गुरुं कृत्वा लब्धिमाप्स्यामः।
इतस्तदुपरि समागतो गौतमश्चतुरष्टदशद्विकानीत्यनुक्रमेण भरतप्रतिष्ठापितस्वर्णमयचतुर्विंशतिजिनेन्द्रबिम्बानि दर्श दर्श भावस्तवचैत्यवन्दनं विधाय जगच्चिन्तामणेः सकलां स्तुतिं कृत्वा चैत्याद् बहिरागत्योपाविशत् । तावत्तत्र तिर्यग्जृम्भकदेवीभूतो वज्रस्वामिजीव आगात् । तम्प्रतिबोध्य, स तदुत्तीर्य नीचैराययौ । तत्रावसरे ते सर्वे तापसास्तच्चरणयोर्निपेतुस्तच्छिष्याश्च जाताः ।
ततस्तैः सह मार्गे गच्छन् स गौतमस्वामी कमपि ग्राममासाद्य तानपृच्छत्-भोः तपस्विनः ! यूयं किं भोक्ष्यध्वे ? तैरुक्तम्- स्वामिन्! पञ्चामृतमशितुमद्य नो वाञ्छा जागर्ति । तद्वचः श्रुत्वा स्वयमेव गोचर्य 144