________________
|
सूक्तमुक्तावली एतत्परिणामो दर्शनीयः किं भवतीति ? यथासौ राजा साधुबुद्धिर्भण्यते तथा तु नैव दृश्यते । असौ मे नाथो मदर्थमियद्दुःखमसहत | अतः परमात्मा तदीप्सितं पूरयतु सत्वरमिति सा यावद्विचारयति, तावद्वंशाग्रे तिष्ठता तेन नटेन कस्यचिच्छ्रेष्टिनो गृहे षोडशशृंगारसज्जितातिरूपवती युवती तत्पत्नी सिंहकेसरमोदकैर्भृतं स्थालमादाय कञ्चन युवानं श्रमणं श्रेष्ठतरं साधुं प्रतिलाभयन्ती विलोकिता । सा प्रतिलब्धुं मुनिमधिकमाग्रहं करोति परं साधुर्न गृह्णाति स्म । तदद्भुतरूपेऽल्पमपि दृष्टिपातो नाकरोत् । तदद्भुतं दृश्यं विलोक्याऽनित्यभावनां भावयन् संघात्यकर्म क्षयं नीत्वा तत्कालं केवलज्ञानमाप्तवान् । शासनदेवता तदुत्सवं व्यधात् । तदा नृपादयः सर्वे सहसोत्थाय तं ववन्दिरे । तदैव सा नट्यपि चारित्रवती बभूव । तत एलाचीकेवली बहुजीवान्प्रतिबोध्य मोक्षमयासीच्चान्ते ।
अतः शुभभावे समुत्पन्ने भावनातोऽप्यधिको लाभो जायत इति बोध्यम् । परं तादृशः शुभभावोदयः कठिनोऽस्ति | मुख्यभावनां विना संसारसागरतः केचिदपि न तरन्ति । एतत्कथा ग्रन्थान्तरे सविस्तराऽस्ति, परमत्र तु संक्षिप्तैव दर्शिता ।
३८ - पुनरपि भावनाभावने सुश्रावकस्य जीर्णश्रेष्ठिनः कथा
इहैव श्वेताम्बिकानगर्यां छद्मावस्थः श्रीमहावीरस्वामी चातुर्मासिकं तपस्तपन्नासीत् । प्रत्यहं प्रभात एव प्रभुवन्दनार्थमागतः कचिज्जीर्णनामा श्रेष्ठी प्रभुं वन्दित्वा तमेवमभ्यार्थयत - यथा'भगवन् ! अद्य मद्गृहमागत्य भक्तपानादेर्लाभो दातव्य इति । परं
156