________________
सूक्तमुक्तावली लोकाः सज्जितगात्रास्तत्रोद्याने जग्मुः । अभयाराश्यपि गवाक्षस्था पुरकौतुकं विलोकमाना तन्मार्गेण गच्छतः समानवयसः सुन्दरान् यूनः षट्पुरुषानपश्यत् । तानलक्षितान् मत्वा सखीमपृच्छत्-अयि सखि! एते के यान्ति? सोचे-मनोरमाकुक्ष्युत्पन्नाअमी सुदर्शनश्रेष्ठिनः पुत्रा यान्ति । तदा राज्यवक् तस्य- पौरुषमेव नास्ति, तर्हि तस्य पुत्राः कथमभूवन् ? असम्भवमेतत्करतलकचमिव प्रतिभाति । सखी वक्तिमया सम्यगालक्ष्यैवाऽमी सुदर्शनसुता इत्युक्तं, अत्र सन्देहं मा कृथाः। तदाकर्ण्य राज्ञी मनसि विचिन्तयति- नूनं स मां वञ्चयित्वा गतः। अतस्तं केनाऽप्युपायेन मारयाणि तर्हि वरमिति ध्यात्वा सीमन्तमुन्मुच्याऽऽभरणानि सर्वाणि विमुच्य जीर्णमञ्चकोपरि चिन्तातुरीभूता सा स्थिताऽभूत् ।
ततः क्षणानन्तरं तत्र राजाऽऽगात् । राजा तां तथाऽऽलोक्याऽपृच्छत्-अयि प्रियतमे! अद्य ते किआतम् ? यदेवं सुप्ताऽसि, तदा राज्ञो महाग्रहेण साऽवक्-स्वामिन् ! अतः परमियं नगरी वसितुं न युज्यते । राजाऽवक्- तत्कारणं ब्रूहि ? केनाऽपि तव किमप्यपराद्धम् । अज्ञाते सति कथं तदुपायं करोमि ? अतः सत्वरं निजदुःखस्य कारणं वद । येन तदुपायं विधाय सत्वरं त्वां सुखिनीं विदधीय ।
इत्याकर्ण्य साऽवक्-हे महाराज ! यदा त्वं रथवाटिकामगास्तदा सुदर्शनः श्रेष्ठी मदन्तिकमागत्य हठान्मच्छीलं भक्तुं बहु प्रयत्नमकरोत् । तदवाच्यमेव विद्धि । दैवेनैव तदा मे शीलं रक्षितम् । तत्स्मृत्वाऽधुनाऽपि मे मनः शरीरञ्च कम्पते । अतोऽत्र स्थातुंनेच्छामि।
तच्छ्रुत्वा तदैव तन्निग्रहाय दूतः प्रेषितः । तदाऽऽनीते तस्मिन्
-141