________________
सूक्तमुक्तावली राज्ञाऽविचायैव भृत्यान् सुदर्शनस्य शूलारोपणमादिशत् । लोका हाहारवं चक्रुः । तेऽपि तं तत्स्थानं निन्युः । तत्र च यदा ते सुदर्शनमखण्डितशीलव्रतं शूलिकायामारोपयितुं लग्नास्तदा शासनदेवतया तत्क्षणं तां भक्त्वा सिंहासनमकारि, तच्च देवविमानमिवाधराश्रितमशोभत । सुदर्शनोपरि पुष्पवृष्टिर्जाता । येनाऽसौ निर्दोषः शीलवान् सुदर्शन उपद्रुतस्तस्याहं शिक्षा करिष्यामि, इत्याकाशवाण्यप्यभूत् । तां श्रुत्वा सर्वे नृपादयः पौराश्चिन्तामापुः ।
ततोनृपादयः सर्वे सविनयं तत्पदयोः पतन्तस्तद्गुणं गायन्तस्तं महता महेन नृत्यवाद्यादिकं वितन्वन्तो गजारूढं विधाय पुरमानिन्युः। ईदृशस्य शीलस्य माहात्म्यं केऽपि वक्तुं न शक्नुवन्ति, तस्याऽतुलत्वादतः सर्वैः श्रेयोऽर्थिभिः सदैव शुद्धं शीलं पालनीयम् ।
३२-अथ शीलविषये गाङ्गेयस्य कथा दर्यते___यथा शान्तनुनृपस्य गङ्गाराज्ञीकुक्ष्युत्पन्नो गाङ्गेयो युवराजः पितुरिच्छां पूरयितुं कञ्चन धीवरं कन्यामयाचत । तदा स मत्स्यजीवी तमेवमवदत्- भो युवराज ! मम दौहित्रो राज्यं न लप्स्यते, तद्राज्यं तवैव मिलिष्यति, अतः कथमहं तव पित्रे सुतां दद्याम् ? तदा तेन प्रतिज्ञाय स भणितः - भो! मम पित्रे सुतां देहि । यस्ते दौहित्रो भविता, स एव राज्यभाक् भविष्यति | आजन्म ब्रह्मचर्यव्रतं मयाऽङ्गीक्रियते । इत्थं पितुः कामं परिपूर्णमकृत । स्वयमाजन्माऽतिदुष्करं ब्रह्मचर्य परिपाल्याऽतुलं बलमाप । पाण्डवकौरवयोर्युद्धे बाणविद्धोऽपि विरागात् संयम लात्वा देवगतिमीयिवान् । एवमन्यैरपि शीलं सम्यक्
142