________________
सूक्तमुक्तावली
कलि करण नरिंदा ए समा छे जिकोई, परभव शिव पामे शील पाले तिकोई
॥४२॥
इह पुरा लोके शीलेन जिनदासाऽभिधः श्रेष्ठी शुशुभे । तथा भीष्मः सच्छीलगुणेन रराज । इह च कलिकालेऽपि कर्णः शीलशाल्यभूत् । एतेषामिव ये शीलमपालयन्, ये पालयिष्यन्ति पुनर्ये पालयन्ति, ते सर्वे परत्र मोक्षमाप्नुवन्, प्राप्स्यन्ति, प्राप्नुवन्ति च । इहापि तेषां सोनीगोत्रीयसङ्ग्रामश्रेष्ठिवन्महती कीर्तिः प्रसरति । लोकास्तद्वचः I प्रमिन्वन्ति, अतः शीलमाहात्म्यं विशिष्टं मत्वा सर्वैस्तत्पाल्यं, यतः - चतुर्नि - कायदेवदेवेन्द्रचक्रवर्त्यादयोऽपि तच्छीलशालिनो नमस्कुर्वन्ति ||४२||
३१ - अथ शीलपालने सुदर्शनश्रेष्ठिनः कथानकम्
कश्चित्सुदर्शनाख्यः श्रेष्ठी चम्पापुर्यो जज्ञे, तदुपरि अभया राज्ञी मुमोह । सा चैकदा रहसि कपटेन तमाहूय हावभावेन समालपन्ती तच्छीलखण्डनाय भृशमयतत । तथाऽपि निश्चलंतमालोक्य सा तमेवमवक्हे श्रेष्ठिन् ! मया सह रमस्व, त्वदनुरागिणीं मां भुधि । नो चेद्राज्ञा ते पराभवं कारयिष्यामि । तदाकर्ण्य तेनोक्तं - अयि राज्ञि ! तवोक्तं सर्वं चिकीर्षामि परं मम तनौ मनागपि पौरुषं न विद्यते, तद्विना किम्भवेत् ? इत्युदीर्य शीलं रक्षितम् ।
अथाऽन्यदा तत्र नगरे कोऽपि महोत्सवोऽभूत् । तत्र सर्वे
1. हावो मुखविकारः स्याद् भावश्वित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, चिभ्रमो भ्रूसमुद्भवः ।।१।।
140