SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली इह जगति पुरा किल नल - बलि - हरिश्चन्द्र - भोजप्रमुखा वदान्यतया सर्वेषां प्रातःस्मरणीया बभूवुः । इति दानमाहात्म्यं हृदये निधाय यथाशक्ति सुपात्रादिक्षेत्रेषु सल्लक्ष्मीं वितीर्य सर्वैरेव मनुष्यत्वं सार्थकं नेयम् ||४०|| ३० - अथ दानगुणोपरि कर्णराजस्य कथानकम्इह कर्णो राजा दातृणामग्रेसर आसीत् । सोऽन्यदा चित्राङ्गदविद्याधरस्य केलिवनोपमर्दनात्तेन कारागारे न्यस्तः । तत्रैकदा कश्चन देवयाचकस्तत्परीक्षार्थमागत्य तमस्तावीत् । तदाकर्ण्य सोऽवक्-भो याचक ! ममेदानीं किमपि नास्ति, इत्युक्तेऽपि पुनर्निराशतां मा यात्वसौ, इति मनसि ध्यात्वा तदानीं शिलाशकलेन निजदन्तजटितस्वर्णशलाकां निष्काश्य तस्मै ददौ । यथा रङ्कत्वेऽपि स दानगुणं नाऽमुञ्चत्, तथाऽन्यैरपि नैव त्याज्यः । अतः यथाशक्ति दानं विधातव्यमेव । अथ १५ - शील- विषये अशुभ करम गाले शील शोभा दिखाले, गुण गण अजुआले आपदा सर्व टाले । जस नर बहु जीवी रूप लावण्य देई, परभव शिव होई शील पाले जिकेई ॥४१॥ अहो ! शीलं यदेतल्लोकस्याऽशुभानि कर्माणि नाशयति, शोभां वर्धयति, सङ्कटमपाकरोति, गुणान् निर्मलीकरोति । किमधिकं | वच्मि, शीलपाली नरो यशस्वी तेजस्वी दीर्घजीवी रूपलावण्यादिसद्गुणभाग्भवति । परत्र च मोक्षमुपैति ||४१|| इण जग जिनदास श्रेष्ठी शीले सुहायो, तिम निरमल शीले जेम गंगेय गायो । 139
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy