________________
सूक्तमुक्तावली कोऽपि नाऽशक्नोत् ।
अथाऽन्यदा तत्रागतमेकं ज्ञानिनमेतत्स्वरूपमपृच्छद्राजा । ज्ञानी वक्ति- हे राजन् ! एतस्य प्रधानस्य भवान्तरे या पत्न्यासीत, सा मृत्वा व्यन्तरीभूता प्रधानमेनं क्लेशयितुमेतत्सर्वमकरोत् । परमेष निजोद्यमबलात्तमपि दूरमकार्षीच्च सुखी जातः । अतः सुखेप्सुभिः सर्वैरपि मनुजैः प्रधानतयोद्यमे प्रयतितव्यम् ।
अथ १४-दान-विषयेथिर नहि धन राख्यो तेम नाख्यो न जाए, इणि पर धन जोतां एवं गत्या जणाए । इह सुगुरु सुपात्रे जेह दे भक्तिभावे, निधि जिम धन आगे साथ तेहीज आये ॥३९॥
धनस्थैर्य नैवाऽस्ति । कृतेऽपि सहस्रप्रयत्ने नैसर्गिकमस्थिरमेतत्स्थिरतां कदाऽपि नोपैति । इह लोके लक्ष्म्या गतित्रयं वर्तते । 'दानं भोगो नाशश्चेति तत्र दानभोगौ पुण्यवतामेव भवतः । ये न ददते, न च भुञ्जते, तेषां लक्ष्म्यास्तृतीया नाशगतिर्जायते । अतः सुकृतिनो जनाः सत्पात्रेषु धर्ममार्गेषु च निजां सम्पत्तिं व्ययीकुर्वते । तानि दानपुण्यादीन्येव भवान्तरे निधीभूय तस्याऽनुगच्छन्ति । इह लोके ये ये वदान्या अभूवन तान्दर्शयति ||३६|| नल बलि हरिचंदा भोज जे जे गवाए, प्रह समय सदा ते दान केरे पसाए । इम हृदय विमासी सर्वदा दान दीजे, धन सफल करीजे जन्मनो लाभ लीजे
૪૦
138