________________
सूक्तमुक्तावली
हे राजन् ! अद्यतः पञ्चदशदिनाभ्यन्तरे प्रधानस्य प्राणान्तिकः क्लेश आगमिष्यति । इत्याकर्ण्य सभातः स्वगृहं तमानीय प्रधानोऽपृच्छत्हे निमित्तज्ञ! मम कस्मादुत्पत्स्यते क्लेश इति वद । तेनोक्तम्-यस्ते ज्येष्ठः सुतस्तस्मात् ।
अथ मन्त्रिणा सत्कृते तस्मिन् गते, मन्त्रिणा पुरुषप्रमाणैका काष्ठपेटिका कारिता | तत्र खाद्यं पेयं च निक्षिप्य ज्येष्ठपुत्रमाहूय सर्वमेतज्जगौ । सोऽपि विनीतः पितुराज्ञया तस्यामविशत् । ततस्तां सार्गलां विधाय सेवकेन नृपान्तिकमनीनयत् । उक्तञ्च-हे महाराज! मम विपदागामिन्यस्ति । इति सम्पत्त्या किम् ? अत एनां सम्पदं भवत्पार्च स्थापयितुमनयम् । इत्युदीर्य तत्कुञ्चिकां तस्मै दत्त्वा जगाद- हे स्वामिन् ! एषा पञ्चदशदिनानन्तरमुद्घाटनीया ।
तदनुस मन्त्री राजानं नमस्कृत्य चैत्यमेत्य जिनेन्द्रं स्तोतुमलगत् । एवमाचरतस्तस्य तानि दिनानि व्यतीयुः । राज्ञाऽपि सा मञ्जूषाऽन्तःपुरे न्यासिता ।
अथैकदाऽन्तःपुरस्थिततत्पेटिकामध्यादेवं शब्दः प्रादुरासीत् । यथा-राज्या वेणी प्रधानपुत्रकरगता जाता। तदाकर्ण्य कोपाद्रक्ताक्षो नृपो दूतेन प्रधानमजूहवत् । तदादेशात्तदानीमेव सदूतस्तद्गृहमागत्य मन्दिरस्थं तं ज्ञात्वा तत्रागत्य तं नृपान्तिकमनयत् । तमागतं वीक्ष्य नृपो विमुखीभूय तस्थौ । तत्राऽवसरे मन्त्री जगाद- हे स्वामिन् ! तत्पेटिकामानाय्य विलोक्यतां तत्र किमस्तीति । नृपोऽपि तथा कृत्वा तामुद्घाट्य करधृतराज्ञीवेणिकं प्रधानपुत्रमपरकरे खड्गं दधतमपश्यत् । तदर्शनात्सआतविस्मयस्य तस्य राज्ञः क्रोधः प्रशशाम | एतदद्भुतं वृत्तं सर्वत्र पुरे प्रससार । कथमेतदभूदिति ? निर्णयं कर्तुं
137