________________
सूक्तमुक्तावली तत्स्थाने संस्थाप्य रक्ष्यताम् । तन्निशम्य नृपोऽवक् - नैतद्युज्यते, निजस्य जीवातवेऽपरः कथं हन्यते ? एतत्तु महापापं वेद्मि । अपर एवमवदत्- राजन् ! भवान् तत्र दिने कुत्रचित्पोतमुपविश्य स्वयमगाधे जले तिष्ठतु । यज्जले विद्युन्नैव पतति, अनेनोपायेन नूनमेवैतद्वचोऽलीकतामुपैष्यति । इतरोऽवदत्-राजन् ! नैतद्विचारसहं प्रतिभाति, यतो विद्युत्तत्र मा पततु, पोत एव यदि जले निमज्जेत्तदा राज्ञस्तदितरेषामपि प्राणसंशयः स्यादिति । तदनु सुबुद्धिनामा मन्त्री न्यगदत् - हे स्वामिन्! ममोक्तमपि निशम्यताम | अद्यतः सप्तदिनपर्यन्तं श्रीजिनेन्द्रो भगवान मनोऽभीष्ट सिद्धिकारी भक्त्या सेवनीयस्तस्मिन् भक्तिं कुर्वतः कदाप्यापत्तिर्नोदेति । दानपुण्यादिधर्मकृत्यं यथेष्टं वितन्यताम् । सिंहासने च काष्ठमययक्षमूर्तिः स्थाप्यताम् । एतच्च नृपादिभ्यः सर्वेभ्योऽरोचत ।
-
ततो नृपः सप्त दिनानि तत्सर्वमकरोत्। सप्तमेऽहनि निमित्तज्ञोक्तं सत्यापयन्तीव चपला स्थापितयक्षशिरसि पपात । तेनेत्थं तद्भयाद्राजा | मोचितः । सर्वे लोका मुमुदिरे । जयजयारावं च वितेनुः । तदनु राज्ञा प्रचुरधनदानेन स नैमित्तिकः सत्कृत्य विसृष्टः । एनां कथां निशम्य भवन्त उद्यमबलं पश्यन्तु । यदुद्यमेन भविष्यदपि मरणभयं राज्ञोऽनश्यत् । इति प्रत्यक्षं तत्फलं पश्यन्तो भवन्तोऽप्युद्यमं कुर्वताम् ।
२९ - पुनस्तत्रैव ज्ञानगर्भाभिधप्रधानस्य अपरः प्रबन्धः
एकदा सदसि समागतं निमित्तज्ञं नृपोऽपृच्छत् - भो विद्वन् ! काञ्चिद्भविष्यन्तीमपूर्वां वार्तां कथय । सोऽपि ज्ञानतो विचार्य नृपमवदत्
136