________________
सूक्तमुक्तावली मधिगच्छन्ति । आपद्गतानपि जनानुद्यमो हि सहायतां नयन्नऽभितो रक्षति । अतो हे भव्यभ्रातः ! आलस्यं त्यज, उद्यम भज ||३७|| नृप शिर निपतंती बीज जात्कारकारी, उद्यम करि सुबुद्धी मंत्रिये ते निवारी । तिम निज सुतकेरी आयती दुर्दशाने, उद्यम करि निवारी ज्ञानगर्भ प्रधाने
ર૮ળા इह तन्नास्ति यदुद्यमेन न साध्यते-यथा कस्यचन राज्ञः शिरसि पतिष्यन्तीमतिदीप्तां सौदामिनीमपि निजोद्यमयोगेन सुबुद्धिनामा प्रधानो न्यवारयत् । तथा मतिमान मन्त्री निजपुत्रादेष्यन्तीं निजामपि दुर्दशामुद्यमेन निराकरोत् ।।३८||
२८-अथोधमोपरि सुबद्धिनाम्नः
प्रधानस्य प्रबन्धःअथैकदा विजयराजसदसि कश्चिन्नैमित्तिक आगात् । राजा तमेवमपृच्छद्- भो नैमित्तिक ! यदि भविष्यञ्जानासि तर्हि साम्प्रतं कस्य किं भवितेति वद | सोऽप्यूचे- हे राजन् ! मया सर्वं ज्ञायते, शक्यते च गदितुम् । यत्पृष्टं तदाकर्ण्यताम्, अद्यतः सप्तमे दिवसे पोतनपुराधीशस्य शिरसि विद्युत्पतिष्यति, इति निशम्य सर्वे राजादयः सभ्या भृशमखिद्यन्त । राज्ञाऽचिन्ति-भवितव्यं केन वार्यते । यदाह"अवश्यं भाविनो भावा, भवन्ति महतामपि" इति ।
तत्रावसरे सर्वे मतिशालिनो मन्त्रिगणा एतन्निराकरणोपायमचिन्तयन् । तन्मध्यादेकोऽवादीत्-यद्येवं तर्हि कमप्यन्यं नृपं तद्दिने
135