________________
नहि तरु फल खावे ना नदी नीर पीये, जस धन परमार्थे सो भले जीव जीवे । नल करण नरिंदा विक्रमा राम जेवा. परहित करवा जे उद्यमी दक्ष तेया
सूक्तमुक्तावली
રા
किञ्चैतत्पश्यत । यथा - तरवः फलन्ति परं तानि फलानि स्वयं नाऽश्नन्ति । यथा नद्यः स्वयं नीरं न पिबन्ति, किन्तु परानेवोपकुर्वते । स्वयञ्च ते तरव आतपादिमहाक्लेशं सहमानाः परेषामुपकृतौ सदैवोद्यतास्तिष्ठन्ति । येषां धनानि परोपकरणे यान्ति, तथा कायेन वचसा च लोकानुपचिकीर्षन्ति, ते सत्पुरुषा इह चिरं जीवन्तु, यथानलराजः कूपस्थं सर्पमभितो ज्वलत्यपि दहने बहिरानीतवान् । यथा कर्णराजो बहूननाथान् विकलाङ्गान् बहुतरधनव्ययेनोपकृतवान् । विक्रमार्को निजां लक्ष्मीं परोपकृतादिधर्मार्थमव्ययीत् । रामराजो यथा कायेन वचसा मनसा सम्पदा च जगज्जीवानुपाकरोत् । तथान्यैरपि लोकद्वयसुखलिप्सावद्भिः परेषामुपकृतिः कार्या ||३६|| अथ १३ - उद्यम - विषये
रयण - निहि तरीने उद्यमे लच्छि आणे, गुरु - भगति करीने उद्यमे शास्त्र जाणे । दुःख समय सहाई उद्यमे छे भलाई, अति अलस तजीने उद्यमे लाग भाई !
॥३७॥
इह खलु ये केचन समुद्योगिनः सागरं तरन्ति ते रत्नानि समाप्नुवन्ति । ये पुनर्भक्त्या विनयं कुर्वन्तो गुरूनुपासते, तान् सेवन्ते, तदाज्ञावर्तिनो भवन्ति । ते किलाऽपारस्याऽपि शास्त्रस्य परम्पार
T
134