________________
सूक्तमुक्तावली
नीप्रभुं भोजराजं शारदादत्तविजयं निवेद्य बाणकविः प्राधान्यमनयत्, ततःप्रेमृति नृपसदसि बाणस्य महीयसी प्रतिष्ठा जाता ।
अथ १२ - परोपकार- विषये
तन धन तरुणाई आयु ए चंचला छे, परिहत करि लेजे ताहरो ए समे छे । जब जनम जरा जां लागशे कंठ भाई !, कहि न तिण समे तो कोण थाशे सहाई
॥३५॥ भो भ्रातृलोकाः ! इह संसारे शरीर - धन - यौवनायुरादीनि समस्तानि क्षणभङ्गुराणि सन्ति । अतः सर्वमसारं मत्वा सारभूतम्परोपकरणमाशु भवद्भिर्विधीयताम् । समागते वार्धक्ये जराऽभिभूता नष्टबला इन्द्रियेषु सकलेषु शैथिल्यमुपपन्नेषु यूयं कि करिष्यथ ? स्वयमेव मनसि विचारयत । तत्रावसरे युष्माकं त्राता को भविष्यतीति ? केवलमनुष्ठितो धर्म एव त्रास्यते । अतः प्रमादं विहाय सर्वप्राणीप्सितसुखार्थादिप्राप्तिनिदानं परोपकारं विदधताम् । येनोभयत्र सुखमाप्स्यथ ||३५|
1
1. अस्मिन् कथानके बाणमयूरौ श्वशुरजामातरावभूतामिति विचारणीयम् । 'प्रबन्ध - चिन्तामणिग्रन्थे' भोज-भीमप्रबन्धे स्पष्टतरमित्थमुल्लिखितम् - गतप्राया रात्रिः कृशतनुशशी शीर्यत इव, प्रदीपोऽयं निद्रावशमुपगतो घूर्णत इव । प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो ! ( इति भूयो भूयस्तेन त्रिपदीमुदीर्यमाणामाकर्ण्य ) कुचप्रत्यासत्त्या हृदयमपि ते चण्डि ! कठिनम् ||१|| इति भ्रातमुखात्तुर्यं पदमाकर्ण्य क्रुधा सा सत्रपा च कुष्ठी भवेति तं भ्रातरं शशापेत्यादि ।
'भोज और कालिदास' नाम्नि पुस्तकेऽपि कविप्रसिद्धयोर्बाणमयूरयोर्वृत्तान्ते बाणकवेर्भगिनीपतिर्मयूरकविरित्येव लिखितम् । लोकेऽपि चैवमेव तौ प्रख्यातितामापतुरिति।
133