________________
सूक्तमुक्तावली अस्या अयमर्थः-रासभा वृषभास्तुरङ्गा द्यूतकारिणः कोविदाः शिशवश्चैत एकमेकेन विना न तिष्ठन्ति, यदि तिष्ठन्ति तर्हि मिथो युध्यन्ते, तथैव तौ वशुरजामातरौ विवादं सदैव नृपाग्रेऽकुरुताम् । एकस्योन्नतिमपरः कदाऽपि मनागपि नाऽसहत । ____ अथैकदा तौ नृपेणैवं भणितौ, यथा- भोः पण्डितौ ! युवाकाश्मीरदेशं यातम् । तत्र द्वयोर्मध्ये यं सरस्वती संमंस्यते तमधिकमपरं हीनमहं ज्ञास्यामि । इति नृपादेशं लात्वा तावुभौ काश्मीरम्प्रति चेलतुः | मार्गे च तावोङ्कारनाथस्य शिवस्य मठे धान्यभारमुद्वहतः पञ्चदशशतान् वृषभान (पोठीतिलोकभाषाप्रसिद्धान्) अपश्यताम् । तानालोक्य तौ तद्वाहकानपृच्छताम्- किम्भोः ! यूयमेतेषु वृषभेषु भृत्वा कुत्र किमर्थं नयथ ? तैरभाणि- एतानि श्रीओङ्कारक्षेत्रे वृत्तिधान्यानि नीयन्ते । तन्निशम्य तत्कालं तौ साश्चर्यो जातौ । पश्चादने व्रजन्तौ तौ रात्रौ कुत्राऽपि सुषुपतुः। तदा तौ गगनस्था शारदा एतां समस्यामपृच्छत् । यथा- 'शतचन्द्रं नभस्तलम् तदाकर्ण्य बाणकविस्तामेवमपूर्यत । यथादामोदरकाघात,-विकलीकृतचेतसा । दृष्टञ्चाणूरमल्लेन, शतचन्द्रं नभस्तलम्
॥१॥ . इत्याकर्ण्य मयूरकविहुंकारं कुर्वन् तत्समस्यामन्यथाऽपूरयत । तदा पुनराकाशवाण्यभूत् । यथा-येन प्रथमं समस्याऽपूरि, सोऽधिकः । अपरस्तुहुङ्कारनादं वितत्य तत्पूर्ति व्यधादिति सोऽल्पीयान् कविः, इति सरस्वतीविहितजयपराजयौ तौ प्रभाते समुत्थायोज्जयिं
132