________________
सूक्तमुक्तावली
विद्यां शिक्षध्वम् ||३३|| सुर नर सुप्रशंसे विद्यया वैरि नासे, जग सुजस सुवासे जेह विद्या उपासे । जिण करि नृप रंज्यो भोज बाणे मयूरे, जिण करि कुमरिंदो रींजव्यो हेमसूरे
॥३४॥ किञ्च-विद्वांसः सुरैर्नरादिभिश्च प्रशस्यन्ते । महात्मभिस्ते सक्रियन्ते । नृपसदसि ते मानमधिकमाप्नुवन्ति । ते विद्याबलेन जितारयो जायन्ते । ये विद्यामुपासते तेषां जगति स्फीतं यशो विततं भवति । ते च विद्याधनमतुलं प्राप्यानुपमं सुखमधिगच्छन्ति । यथा पुरा किल बाणमयूरौ विद्यया भोजनृपं भृशमतूतुषताम् । यथा सत्प्रतिभाबुद्धिसन्निधिः श्रीमद्धेमचन्द्राचार्यो विद्यया कुमारपालं नरपालं भृशं सन्तोष्य प्रतिबुद्धमकरोत् । तथाकृतेऽन्येऽपि विद्यामादरेण शिक्षन्ताम् ।।३४||
२७-अथ विद्यया भोजनृपं तोषयतोर्बाणमयूरयोः
प्रबन्धःअस्मिन्नुज्जयिनीनगरे भोजराजसभायांबाणमयूराभिधौ मिथः श्वशुरजामातरौ विद्वांसावभूताम् । तौ विद्यामदोन्मत्तौ सदैव नृपसदसि समागतौ विवदमानौ चैकस्य प्रशस्तिमपरोऽसहमान आसीत् । यदाहन सहति इक्कमिक्कं, न विणा चिटुंति इक्कमिक्केण । रासहवसहतुरंगा, जूआरी पंडिआ डिंभा 11811
-131