________________
सूक्तमुक्तावली
नीयोऽस्ति सम्प्रति गुरुत्वादपि विशेषतः । नीतिशास्त्रेऽपि यदुक्तम्
I
एकाक्षरप्रदातारं, यो गुरुं नैव मन्यते । श्वानयोनिं शतङ्गत्वा, चाण्डालेष्वपि जायते
॥१॥
अधुनाऽसौ ते गुरुरजायत इत्येनञ्जीवितप्रदानेनऽभयं कुरु । ततो राजा तं मुक्त्वा लक्षदीनारं तस्मै दत्तवान् । अनया कथया विनयस्य प्राधान्यमवगन्तव्यम् । स नृपोऽपि यदा विनयमकरोत्, तदा तन्मुखोच्चारिता विद्या चटिताऽभूत् । किञ्च - विनयसहिता स्वल्पाऽपि विद्या लोके बहु विस्तृणाति । अतः सद्विनयमूलधर्मरुचिनिमग्नैः सद्भव्यैः सर्वैरपि सदैव विनये यतितव्यम् ।
अथ ११ - विद्याविषये
अगम मति प्रयुंजे विद्यया कोन गंजे, रिपुदल बल भंजे विद्यया विश्व रंजे । धनथि अय्यय विद्या सीख एणे तमासे, गुरुमुख भणि विद्या दीपिका जेम भासे
શો
विद्यावन्तो नराः कदाऽपि धूर्तादिलोकैर्नैव वञ्च्यन्ते, तथा सद्विचारयोगात्ते रिपुदलानि महान्त्यपि लीलया क्षणादेव जयन्ति, तथा विद्यया सकलमपीदं विश्वमनुरज्यते । इत्थं हि नूनमितरधनाद्यपेक्षया पुंसां विद्यैवाऽक्षय्यकोशकल्पा प्रतीयते । यतो धनादिकं व्ययिते हीयतेऽसौ तु भृशं व्ययिताऽपि समेधते । तथा विद्या हि श्रियो निदानमस्ति सा विद्या सकलतत्त्वविलोकने विदुषां हृदयभवने महादीपायते । अतो हे लोकाः ! यूयमवश्यं विद्वद्वर्यसद्गुरुसन्निधौ
I
130