________________
सूक्तमुक्तावली
२६ - अथ विनयेन विद्याग्रहणोपरि श्रेणिकनृपस्य कथानकम्
यथा-राजगृहे नगरे श्रेणिको नाम राजाऽस्ति । तेन मन्त्रिपदे मतिमानभयकुमारः स्वपुत्रो नियुक्तः । तत्र चैकश्चाण्डालो निवसति स्म । तस्य भार्या गर्भवती जाता । तस्या एकदा रसालफलभक्षणाय दोहदो जज्ञे । तदपूर्त्या सा प्रतिदिनमतिकृशा जाता । तां तथाऽऽलोक्य चाण्डालस्तत्कारणं तामपृच्छत् । साऽपि तत्कारणं समुत्पन्नं दोहदमाख्यत् ।
तदाकर्ण्य स मनसि चिन्तयति - अहो ! अतिदुष्करोऽसौ दोहदः । अकाले तत्फलं कथं लप्स्ये ? अयं दोहदो यदि न पूर्येत तर्हि नूनमेषा मे पत्नी दिनानुदिनं कृशीभूय जीवितं हास्यति । अतो येन केनापि यत्नेन तदानीयाऽस्या दोहदः पूरणीयः, इत्थं चिन्तां कुर्वता तेन स्मृतम् । यच्छ्रेणिकराजस्य चेल्लणाराज्ञ्या एकस्तम्भीयनिवाससौधो वर्तते । तत्र देवनिर्मितारामो वर्तते । तस्मिन्नेतत्फलमिदानीमपि लभ्यते । साम्प्रतमन्यत्र कुत्रापि तन्नैव प्राप्तुं शक्यते । अतस्तत्र गत्वा तत्फलमानेतव्यमिति निश्चित्य स तत्रागमत् ।
तत्रागत्य तद्द्वृक्षं फलाढ्यमप्यत्युन्नतं विलोक्यैकया विद्यया तच्छाखां नीचैः कृत्वा गृहीत्वाऽपरया विद्यया तां शाखां पूर्ववदकरोत् । एवं स चाण्डालो विद्याप्रभावेणाऽशक्यमपि दोहदं प्रेयस्या अपूरयत् । परमतिस्वादिष्टं तत्फलं प्रत्यहं साऽयाचत । ततः पत्नीमोहेन स प्रतिरात्रं तत्र गत्वा तथैव तत्फलानि लातुं लग्नः । एवं सर्वाणि फलानि गृहीत्वा तेन स वृक्षः फलशून्यश्चक्रे ।
125