________________
सूक्तमुक्तावली अथाऽन्यदा श्रेणिकनरेश एकस्तम्भीयसौधशिखरमारुह्य तदारामशोमां पश्यन् तदानशाखांफलशून्यामलोकत। तांतथाऽऽलोक्य सव्यचिन्तयत्-अहो! इयमानशाखा गगनचुम्बिनी विद्यते, कोऽप्येनामारोढुं न शक्नोति । रक्षका अपि सदैव परितो रक्षन्ति । तथापि फलानि गतानि दृश्यन्ते । इत्याश्चर्य गतः स्वबुद्ध्या यदैतन्निर्णेतुं न शशाक, तदा राजा तमभयकुमारमाकार्य जगाद - हे कुमार! त्वं मतिमानसि, अत एतदानचौरं केनापि प्रकारेण गृहीत्वा समानय | इति नृपादेशमाकर्ण्य स मन्त्री चतुष्पथमागत्य पौरानेकत्रीकृत्यैवमाख्यत् - भो लोकाः ! मद्वचनमाकर्णयत-पतिवरा काचिदेका धनश्रीनाम्नी कन्या स्वानुरूपपतिलिप्सया कस्यचिदेकस्य मालाकारस्याऽऽरामे यक्षमन्दिरे प्रत्यहमागत्य तदुपवनीयरम्यैः कुसुमैः प्रच्छन्नप्रचितैस्तमभ्यर्च्य पुनर्निजस्थानमागात्। प्रभाते समालाकारस्तत्रागत्य केनापि त्रोटितानि कुसुमानि ज्ञात्वा तच्चौरं जिघृक्षुरभूत् ।
अथाऽन्यदा कुसुमानि विचिन्वतीं ता सोऽग्रहीत् । तत्पृष्टा च सा तमेवमुवाच- अहं हि स्वानुरूपसत्पतिकामे तद्यक्षपूजार्थं पुष्पाणि चिनोमि । मां मुञ्च, अतः परं न ग्रहीष्यामि । अथ तद्रूपेण मोहितः स तामेवमवादीत्- हे कन्ये ! परिणयानन्तरं यदि प्रथमं मदन्तिकमागच्छेस्तदाहं त्वां मुञ्चानि । तत्रावसरे निरुपाया सापि तत्प्रार्थनमङ्गीकृत्य तन्मुक्ता निजालयमाप |
कियत्कालानन्तरं परिणीता सा पतिगृहमागता निशि पतिपार्थमुपेता, निजप्राणनाथमेवं व्यजिज्ञपत्- हे प्राणेश्वर ! अहं योग्यपतिकामनया यक्षमर्चितुं कस्यचिन्मालाकारस्य पुष्पाणि च्छन्नं
126