________________
सूक्तमुक्तावली भृशं शोकमकरोत् । किं बहुना ? तद्वियोगमसहमाना सापि मर्तुकामाऽजायत । तत्रावसरे नृपीभूतो विप्रस्तामाख्यत्-अयि राज्ञि! त्वं मा म्रियस्व । एनं कीरमहं जीवयामि । साप्यवक्-अस्मिञ्जीविते सत्येव मम जीवितं स्थास्यति । नो चेदवश्यङ्गमिष्यत्येव । तत्र सन्देहं मा कृथाः ।
अथैकान्ते स्वशरीरं विहाय कीरपुद्गले समाविशतिप्रजीवः । कीरे सद्यः पुनरुज्जीविते सा राज्ञी तुतोष । अथाऽवसरं वीक्ष्य सरटपुद्गलाद्विनिर्गत्य राजा निजकार्य प्राविशत् । ततः सभामागत्य पूर्ववद्राज्यं पालयितुं लग्नः । अथ सत्य- विक्रमं ज्ञात्वा श्रीकान्ता भृशमतुष्यत् । सर्वे लोकाः प्रमोदं दधिरे । तदनु तस्य मायाविनो विप्रस्य विग्रहं राजाऽदीदहत् । स दुष्टो विप्र आजन्म तिर्यग्रूपेण तस्थौ ।
एतस्मिन् प्रबन्धेऽयंसारोऽस्ति । यद्विक्रमो विनयगुणयोगात्स्वयं विद्यामधिगम्य, भावविनयादिभिर्गुरुशुश्रूषामकुर्वतेऽपि तस्मै विप्राय विद्यां दापितवान् । अतः सर्वैः सकलेष्टकार्यसाधनः सर्वतः श्रेयानसौ विनयो यत्नेन धर्तव्यः ।
किचोपदेशमालायामेवमलेखि-यथा श्रेणिको नृपश्चाण्डालम्प्रत्यपि विनयं कुर्वन् विद्यां शिशिक्षे। अयमाशयः- यथास चाण्डालमपि विद्यावन्तं सिंहासनमुपवेश्य स्वयं कृताञ्जलिस्तदभिमुखं स्थित्वा विनयेन तस्माद्विद्यामग्रहीत, तथाऽन्यैरपि विधेयम् ।
124