________________
सूक्तमुक्तावली पट्टहस्तिनि मृते सर्वे पौराः शोकाकुला आसन् । तांस्तथालोक्य विक्रमो विप्रमवादीत्- हे मित्र ! मम हस्तिनि मृत्युमधिगच्छति सति मन्नगरवासिनो व्याकुला दृश्यन्ते । अतोऽहं गजशरीरे प्रविश्य तञ्जीवयित्वा सर्वान् मोदयिष्ये । त्वं मम कलेवरं सयत्नेन रक्ष । इत्याभाष्य राजा गजशरीरं प्राविशत् । तदा स गजो जिजीव, तेन सकला अपि पौरा अमन्दममोदन्त ।
तत्रावसरे स विप्रो व्यचिन्तयत्-अहो ! एष कोऽपि राजा प्रतीयते । अतोऽहमप्येतच्छरीरम्प्रविश्य राजा भूत्वा राज्यसुखमनुभवेयमिति विचिन्त्य तत्क्षणं स राज्ञः कलेवरम्प्रविश्य लोकानां दृग्गोचरो जातः । ततो मन्त्रिप्रमुखाः सर्वे पौरा महामहेन तं राजसदनं निन्युः । विद्यां लात्वा राजा समागादिति सर्वे जहषुः । महामहं वितेनुः सिंहासने च तमारोपयामासुः ।।
अथान्तःपुरेऽपरिचितमिव साशङ्कमायान्तंतमालोक्य श्रीकान्ताभिधाना राज्ञी मनसि दध्यौ । यथा-एतच्छरीरमात्रं राज्ञोऽस्ति, परमसौ विक्रमो नास्ति, कोऽप्यन्यो विद्याबलेन तच्छरीरं प्रविश्य समागतो भाति, यदेवमायाति । ततस्तदैव सा प्रधानमाकार्य्य सर्वमपि तच्चेष्टितमाचचक्षे । ततस्ताभ्यां मन्त्रयित्वाऽन्तःपुरे तदागमो न्यरोधि ।
एतत्स्वरूपं ज्ञात्वा गजतनुप्रविष्टो राजा वनमगात् । तत्र तत्पुद्गलं विहाय कीरतनुं प्रविश्य तद्रूपेण श्रीकान्ता राज्ञीसमीपमाययौ । साऽपि तङ्कीरमतिप्रेम्णा स्वसमीपे स्थापितवती । तस्मिन् कीरे राज्या महान रागोऽभूत् । एकक्षणमपितद्वियोगं नैच्छत् । तत्पश्चादेकदा स कीरविग्रहं त्यक्त्वा सरटोऽभवत् । तदा कीरं मृतमालोक्य राज्ञी
- 123