________________
सूक्तमुक्तावली न्यगदत् - हे नाथ ! ममाऽन्यत्र जिगमिषा नाऽस्ति । अहं त्वामेव सेवितुमत्राऽऽगतोऽस्मि । गुरुसेवनादमूल्या गुणा उत्पद्यन्ते इत्युदीर्य तत्समीपेऽतिष्ठत् ।
अथ विनयेन स विक्रमस्तं योगिनं भक्त्या सेवमानः कति वर्षाणि व्यतीयाय । तदन्तिके कश्चिदेको विप्र आसीत् । स बहिर्भक्त्या तमसेवत । विनयी नाऽऽसीत्, भक्त्या तं योगिनं नाऽतूतुषत्, केवलं विद्यालिप्सया बाह्याऽऽडम्बरेण भक्तिमकरोत् ।
अथैकदा तुष्टो योग्यं विक्रममवादीत् हे वत्स ! मां सेवमानस्य तव बहूनि वर्षाणि यातानि । त्वं विनयदक्षतादिगुणगरिष्ठोऽसि । अतस्त्वां योग्यं मत्वा ते विद्यां दित्सामि, अधुना परकायप्रवेशिनीं विद्यां लात्वा गृहं याहि । इत्युक्त्वा तस्मै राज्ञे तां विद्यामदात् । तदा विक्रमस्तमेवं विनयेन प्रार्थयाञ्चक्रे - हे स्वामिन् ! त्वया मे विद्या दत्ता । मत्तोऽपि पूर्वतस्त्वामसौ विप्रः सेवते तस्मै कुतो न दित्ससि ? योग्यवक्–असावयोग्योऽस्ति, योग्यायैव विद्या दीयते । विक्रमः पुनर्जगादहे नाथ ! मदभ्यर्थनयाऽस्मा अपि विद्यां प्रदेहि । योगी न्यगदत् - हे वत्स ! त्वमुपकारधियाऽस्मै विद्यां दापयसि, परमसौ विद्यां गृहीत्वा त्वामपकरिष्यति । विक्रमोऽवग्- हे गुरो ! यदि मे तादृक् कर्मोदयो भविष्यति, तर्हि मे तत्स्यादेव, तत्रैतस्य को दोषः ? महात्मनैतदविचिन्त्यैव यस्य कस्याप्युपकारः कर्तव्य एव । राज्ञ एतद्युक्तिमत्कथनमाकलयता तेन योगिना तस्मै विप्रायाऽपि सा विद्या दत्ता ।
तदनु तावुभौ योगिनम्प्रणम्य निजदेशम्प्रति चेलतुः । कियद्भिर्दिनैस्तौ साकेतपुरमागतौ बहिः कुत्रापि तस्थतुः । तत्रावसरे राज्ञः
122