________________
सूक्तमुक्तावली
|
यथा-षोडशभिः कलाभिः परिपूर्णताङ्गतोऽपि शशी रजनीं विना न शोभते, तथा विनयं विना सकला समधिगता विद्यापि नैव शोभां धत्ते । अयमाशयः - लोके हि-विद्यावान् महानपि सत्येव विनये प्राशस्त्यमुपैति । अतः सकलगुणापेक्षया विनयः श्रेयानस्ति । किञ्चतं विना महान्तोऽपि जना लोक औन्नत्यं प्राशस्त्यं महीयसीं सतीं कीर्तिं च नाप्नुवन्ति । अतः सर्वैर्विनय आश्रयितव्य एव ||३१|| विनय गुण वहीजे जेहथी श्री वरीजे, सुरनरपति लीला जेह हेलां लहीजे । जगति पर - शरीरे पेसवा जे सुविद्या, विनय गुणथि लाधी विक्रमे तेह विद्या
॥३२॥
तथा - इह लोके - विनयगुणाल्लक्ष्मीर्वश्या जायते, तत्प्रभावादेव लोका राज्यसुखादिकमनायासेन किलाऽनुभवन्ति । यथा विक्रमार्को राजा विनयेन परकायप्रवेशिनीं विद्यामाप्तवान् ||३२||
२५ - विनयगुणोपरि विक्रमराजस्य कथा दर्श्यतेयथा - साकेतनगरे विक्रमाभिधो राजा राज्यं शास्ति । स चैकदा निजकर्मपरीक्षाकृते राज्यकार्यं मन्त्रिणे समर्प्य देशान्तरं प्रतस्थे । तत्राऽन्यदा कियद्भिर्दिनैः स एकम्पर्वतमपश्यत् । तत्र गत्वा तपस्यन्तमेकं योगिनमद्राक्षीत् । ततस्तं भक्त्या नमस्कृत्य विनयी स तदभिमुखमुपाविशत् । तमदृष्टपूर्वं विनीतं मत्वा योगी तमवक् - त्वोऽसि ? आगम्यते कुतः ? राजाऽवदत्- हे स्वामिन् ! अहं क्षत्रियः साकेतादायातोऽस्मि । पुनर्योगिना पृष्टः- त्वङ्कुत्र यास्यसि ? राजा
121