________________
सूक्तमुक्तावली येषाम्प्राणिनां हृदयसदने विवेकात्मको दीपो विभाति, तेषामखिलभवभ्रमणकारीणि मोहरूपतमांसि नश्यन्ति । ततस्ते परमस्य धर्मवस्तुनस्तत्त्वम्पश्यन्ति । पुनस्तत्र दीपे निपतन्तः कीटाः-कर्मशलभास्तत्कालंक्षीयन्ते।अयमाशयः-यस्य हृदये विवेकोदीपक इव प्रज्वलति, तस्मिन्नविवेको विलयं याति । ततः स यथास्वरूपं वस्तुतत्त्वं जानाति ||२६|| विकल नर कहीजे जे विवेके विहीना, सकल गुण भर्या जे ते विवेके विलीना । जिम सुमति पुरोधा भूमि गेहे वसंते, उगति जुगति कीधी जे विवेके उगते
॥३०॥ इह हि विवेकहीना नरा विकला अधमा निगद्यन्ते। विवेकवन्तो जनाः सकलगुणलसन्त उत्तमेषु कार्येषु रज्यन्ते । विवेकादेव वस्तुतः सदसद्रूपता ज्ञायते । अतस्तद्वन्त उत्तमास्तद्विहीना विकला उच्यन्ते । यथा सुमतिनामा कश्चित्प्रधानो निजराजानं भूमिगृहेऽक्षिपत् । परन्तु स राजा ततोऽपि सङ्कटाद्विवेकगुणयोगात्सदसत्त्वं विचार्य निर्मुक्तो जातः । एतत्कथा ग्रन्थान्तरेवर्तन्ते। इह तुप्रसङ्गत इयत्येवाऽदर्शि||३०||
अथ १०-विनयगुणविषयेनिशि विण शशि सोहे ज्यूं न सोले कलाई, विनय विन न सोहे त्यूं न विद्या बडाई। विनय यहि सदाई जेह विद्या सहाई, विनय विन न कांई लोकमां उच्चताई
॥३१॥
120