SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली २४-अथ सुशीलविषये द्रौपद्याः कथा दर्श्यते__ यथैकदा पञ्चापि पाण्डवाः सभायां सुखासीना आसन् । ते च नगरेऽष्टाशीतिसहस्रतापसानामागमनं शुश्रुवुः । ततस्ते सर्वे तैर्निमन्त्रिताः । परंते तापसा ग्रीष्मतापसन्तप्ता आम्रफलैरेव पारणञ्चिकीर्षन्ति स्म । तेषां तामिच्छामाकर्ण्य पाण्डवा महतीचिन्तामधिगताः । अहो! साम्प्रतमकाले रसालफलानि कुतो लभ्यन्ते? | येनाऽस्माकञ्चिन्तितं सिद्धयेत्। तत्रावसरे नारदर्षिस्तत्रागात् । स तांश्चिन्तातुरान् वीक्ष्यावदत् - भोः पाण्डवाः ! अद्य वः का चिन्ता समापतिताऽस्ति ?। ते जगदुः- हे महर्षे ! अद्यास्माभिरष्टाशीतिसहस्रतापसा निमन्त्रिताः | ते चाऽम्ररसेनैव व्रतपारणञ्चिकीर्षन्ति । इदानीमसमये तानि लब्धं न शक्यन्ते । इति चिन्ता नो जाताऽस्ति । यदि तांस्तद्रसैन भोजयेम तर्हि नः प्रतिज्ञा भग्ना स्यात् । त्वं समर्थोऽसि, तदुपायं वद । तदा नारदो जगाद-तमुपायं वच्मि, यूयं शृणुत । ते समूचिरेसत्वरं ब्रूहि । हे पाण्डवाः! यदीदानीं शुष्कमामबीजं रोपयेत, तदङकुरीभूय झटिति वर्द्धत, फलपुष्पादिकं जायेत तेषाम्परिपक्वफलैरेतेषां पारणं सम्भवेदन्यथा कोऽप्यन्यो नास्त्युपायः। एनमप्यसम्भवं मत्वा ते तच्चिन्तां न तत्यजुः । पुनस्ते नारदजगदुः-हे ऋषे! यदुक्तं भवता तदपि नो दुष्करमेव प्रतिभाति । तेनोपायान्तरेणैतत्त्वमेव सत्वरं सम्पादय | नो चेदस्माकं प्रतिज्ञाहानिर्भविष्यति । तदोक्तं नारदेन-हे कौन्तेयाः ? मा शोचत । अहमिदानीं त्वत्प्रेयसीं द्रौपदीं सर्वमेतन्निग 1. अजैनमहाभारतकथानके ।
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy